________________
शुभाशंसनम्
चञ्चच्चन्द्रिकचन्द्रचारुचरिता प्राचान्त चिन्ताचया
श्चेतश्चिन्तितचिन्त्यचक्र निचयाः सच्चितचित्राचराः । उच्चाचार विचार चार चतुराः सत्कीर्तिसाराञ्चिता
स्ते जीवन्तु चिरं गणेशचरणाः श्रीचुञ्चुवृन्दार्चिताः ।।
उद्यदिव्यदिनेश दीधितिचयप्राग्भारभाभासुरा
दृप्यत्कामकलापलायनपराः सच्छान्तिकान्त्याकराः । संतोषामृतपान दिग्धवपुषः कारुण्यधाराधराः
श्रीमन्तो गुणिनो जयन्तु जयिनः श्रीवर्णिपादाश्चिरम् ।।
शास्त्राम्भोधिवगाहनोत्थित लसत्सद्वोधभानूद्भव---
दिव्यालोक विलोकितावनितलाः सत्कीर्तिकेलीकलाः । पापातापहरा महागुणधराः कारूण्यपूराकरा
जीयासुर्जगतीतले गुरुवराः श्रीमद्गणेशाश्चिरम् ।।
पीयूषनिष्यन्दनिभा यदीया
वाणी बुधानां हृदयं धिनोति । दीर्घायुषः सन्तुतरां महान्त-- स्ते वन्द्यपादा वरवर्णिनाथाः ।।
(पं०) पन्नालाल 'वसन्त', साहित्याचार्य,
सागर
चार