________________
59
काव्याजला
डॉ. शेखरचन्द्रस्य करकमलयो सादरं समर्पिताऽभिनन्दनाञ्जलिः
____ वैयराज पं. राजकुमार जैन (इटारसी) सौम्यभाव समायुक्तः विदुषांश्चानुरागि यो। शलाका पुरुषश्चैव विशेषज्ञो महामतिः॥१॥ गम्भीरो पुरुषार्थीच कृतः कर्मसु कौशलम्। जिन धर्मानुरक्तश्च शेखराय तस्मै नमः॥२॥
आवकस्यकुलोत्पन्नं शुभलक्षणभूषितम् श्रीयुतं समृद्धिकरं परिवार सौख्यास्पदम् ॥३॥ सत्वशीलगुणोपेतं साम्यभावसमायुतम्। धर्मपरायणं चैव समाजस्य च गौरवम्॥४॥ हितं मितं प्रियं मूदु वक्तारं मधु भाषिणम्। वन्दे सरस्वती पुत्रं शेखरं चन्द्रभूषितम्॥५॥ लेखकः बहू ग्रंथानां लेखानां च समीक्षकः। निदेशकश्च शोपनां शोधपत्राभिभाषकः॥६॥ प्रशान्तः गरिमायुक्तः धर्मध्वजाभिवाहकः। शेखरं तं महाभागं सोत्साहमभिवादये॥७॥ बहुश्रुतः कृताभ्यासः बहुमानसमान्वितः। सम्पादन क्रिया विमः जिनसंस्कृति पोषकः॥८॥ वाक्पटुः निपुणः पीमान् सात्विकभावेन पूरितः। विचक्षणः प्रतिभावान् शालीनोकुल भूषणः॥९॥ अभिनन्दन योग्यः सः करोमि तस्याभिनन्दनम्। कामये दीर्घमायुष्यमा रोग्येन समन्वितम्॥१०॥