________________
गणिनी आर्यिकारत्न श्री ज्ञानमती अभिवन्दन ग्रन्थ
[२०१
अथ जयमाला अनुष्टुप् छन्द - मातरं जैन साध्वीं तां, प्रणम्य शिरसा मया ।
तद्गुणैर्जयमालेय, गीयते स्वात्मशान्तये ॥ १ ॥ पूज्या ज्ञानमती माता, जैनधर्मप्रभाविका ।। साध्वीपदप्रतिष्ठायां, सावधाना निरन्तरम् ॥ २ ॥ चतुस्त्रिंशत्तमे वर्षे, शरदः पूर्णिमादिने । टिकैतनगरं ग्रामं, सा पूतं जन्मनाऽकरोत् ॥ ३ ॥ शैशवेऽपि न क्रीडासु, मनस्तस्याः रतमभूत् । धर्मानुकूलचर्यासु, व्यस्ता दृष्टा निरन्तरम् ॥ ४ ॥ बाल्ये जैनमुनीनां सा, सेवयाऽऽनन्दिताभवत् । देवशास्त्रगुरूणां च, सत्कारं मनसाऽकरोत् ॥ ५ ॥ गृहस्थोचितकार्येषु, रुचिस्तस्याः न मानसे । कृत्वा तु धर्मकार्याणि, सन्तुष्टा सा सदाऽभवत् ॥ ६॥ बाल्ये ज्ञानार्जनं कृत्वा, जैनशास्त्राणि साऽपठत् ।। जैनागमरहस्यानां, मर्मज्ञा पण्डिताऽभवत् ॥ ७ ॥ परिवारजनास्तस्याः, सवैराग्ये न बाधकाः । तस्माद् दृढतया मैना, वैराग्यं प्रति प्राचलत् ॥ ८॥ तस्याः पुण्यप्रभावैस्तु, आचार्यों वीरसागरः । तस्याः वैराग्यभावात्तु, अदात्तस्यै स्वशिष्यताम् ॥ ९ ॥ जैनार्यिकापदं प्राप्य, पादाभ्यां विहृतं तया । सम्पूर्णे भारते राष्ट्र, कृता धर्मप्रभावना ॥ १० ॥ तया संस्थापिताः संस्था, कृत्वा जैनत्वरक्षणम् । प्रचारं जैनधर्मस्य, कुर्वन्ति निष्ठया सदा ॥ ११ ॥ त्रिलोकशोधसंस्थान,हस्तिनापुरसंस्थितम् । जैनशास्त्रीयसूत्राणां, सम्यग्व्याख्यां करोति तत् ॥ १२ ॥ विविधानि सतशास्त्राणि, प्रकाश्यन्ते निरन्तरम् । जैनवाङ्मयरक्षायां, कार्य महद् विधीयते ॥ १३ ॥ सम्यग्ज्आनेन लोकेभ्यः, सम्यग्ज्ञानं प्रदीयते।। ग्रामं पुरं गृहं गत्वा, जैनधर्मः प्रसार्यते ॥ १४ ॥ जम्बूद्वीपस्य यद्रूपं, जैनशास्त्रेषु वर्णितम् । साकारं तत् कृतं सर्वं, तीर्थभूहस्तिनापुरे ॥ १५ ॥ जैनागमरहस्यानां, हृदयंगमभाषया । व्याख्या मात्रा कृता रम्या, सर्वैः सर्वत्र शस्यते ॥ १६ ॥ बालेभ्यो जैनधर्मस्य, सुज्ञानं दातुमिच्छया । चारुरोचकभाषायां, ग्रन्थाः विरचितास्तया ॥ १७ ॥ या साध्वी सर्वजैनेषु, मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै, नमस्तस्यै नमो नमः ॥ १८ ॥ ॐ ह्रीं श्रीगणिनीज्ञानमत्यार्यिकायै जयमाला पूर्णाय निर्वपामीति स्वाहा ।
इत्याशीर्वादः, पुष्पांजलिः
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org