________________
श्री यतीन्द्रसूरि अभिनंदन ग्रंथ
जीवन काब्यादिजैनवचनस्फुटंशब्दशास्त्रे,
सम्यग् विवोधकरणे सुमतिश्च यस्य । व्याख्यानपद्धतिवराखिल बोधदात्री,
तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥४॥ सद्वाचकेतिसमुपाधि विभूषितात्मा,
देशतरे विचरणे प्रियतास्ति यस्य । श्रीलक्ष्मणौ ह्यजनि पद्मजिनस्य तीर्थ :
तं सज्जना हि सुनमन्ति यतीन्द्ररिम् ॥५॥ संघेन सार्द्धममुना वहुतीर्थयात्रा,
भद्रेश्वरस्य विहिता विमलाचलस्य । प्रीत्या पुनर्विकट जैसलमेरुकस्य,
तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥ ६॥ अन्योपकारकरणार्थमनेन भूरि
शास्त्राणि मञ्जुलतराणि विनिर्मितानि । ख्यातानि तानि च वहून्यपि मुद्रितानि,
तं सज्जना हि सुनमन्ति यतीन्द्ररिम् ॥७॥ उद्यापनादिसुकृतानि वहून्यभुवन् ,
यस्योपदेशमनुसृत्य तथा प्रतिष्ठा । शिष्यावलिश्च शुभधर्मपथप्रवृद्धि
तं सज्जना हि सुनमन्ति यतीन्द्रसूरिम् ॥ ८॥ पञ्चाङ्काङ्कधराब्दके ऽ तिसुमहै, राधे सिताशातिथौ,
यं सूरि सकलो ऽन्यसंघसहितश्चा ऽ होरसंघो व्यधात् । भक्त्यैतस्य जनो हि योऽष्टकमदो नित्यं मुदा सम्पठेत्, । सर्वदितमियाद् गुलाबविजयो वक्तिस्फुटं वाचकः ॥९॥
स्व.-उपाध्याय मुनि श्री गुलाबविजयजी
सूरिचक्रवर्ती श्रीमद् यतीन्द्रसूरि
(२)
कलानिभानवन्धुरं धुरन्धरं निमज्जतां,
भवोदधावबाप्य भारती शिशावनर्गलाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org