________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ देश भूषणाष्टकम् श्रिया विभूषितं धीरं, साधुमूल गुणाश्रितम् ।
दिगम्बर मणिं रम्यं, वन्दे श्री देश भूषणम् ॥1॥ महाव्रतान्बितं शांतं, तत्त्व विज्ञान भूषणम् ।
धर्म संसाधने वीरं, वंदे श्री देशभूषणम् ॥2॥ सम्यक्त्वं भूषणं यस्य, देशना कण्ठ भूषणम्।
संयमो भूषणं शुद्धं, वंदे तं देश भूषणम् ।।3।। नैक भाषा कला तीर्थं, भक्तिसाहित्य तीर्थकम् ।
ब्रह्मचर्य व्रते तीर्थं, वंदे श्री देशभूषणम् ।।4।। जगत्पात्रं, सुधीपात्रं, पाणि पात्रं सुपात्रकम् ।
शक्ति पात्रं कला गात्रं, वंदे श्री देशभूषणम् ॥5॥ ज्ञान वृद्धं तपो वृद्धं, वयोवृद्धं सुबुद्धिदम् ।
कृति वृद्धं प्रजा वृद्धं, वंदे श्री देशभूषणम् ॥6॥ प्रतिभा प्रतिभा सन्तं, सूरि सन्तं वसंतवत्।
विलसन्तं हि सन्मार्गे, वंदे श्री देशभूषणम् ॥7॥ दर्शनं चोपदेशश्च, देशभूषण योगिनः ।
__ भारते भूषणम् नित्यं, भूषणै: किं प्रयोजनम् ।।४।। प्रजासु शान्ति दायकं, अनाथ वृद्धि कारणम्।
नवीन भव्य शिक्षकं, असेव्य रीति नाशकम् ।।9।। प्रशस्त मंत्र बोधकं, विदेश देशभूषणम्।।
प्रशस्ति कामना कृतं, हि देशभूषणाष्टम् ।।10।
जैनमित्रस्य स्वर्णजयंती महोत्सवे
शुभकामना
बसंततिलकावृत्तम् श्रीयात्सदा जनहिताय हि जैनमित्रम्, क्षीयात्कुरीतिनिवहं वरजैनमित्रम् । कुर्यात्समाजकुशलं भुविजैनमित्रम्, जीयात्तरां जनपदे प्रियजैनमित्रम् ॥1॥
मालिनीवृत्तम् सरलतरलकाव्यै नव्यवृत्तान्तलेखै: गमयतु नवशिक्षां भारते जैनमित्रम् । समयनियम निष्ठं जैनपत्रेषु वृद्धं विलसतु नववर्षे मित्रवज्जैनमित्रम् ॥2॥
-494
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org