SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ पठेदष्ठोत्तरंनाम्नां, सहस्रं पापशान्तये ।। 2 ।। स्तुति: पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधी:।। ___निष्टितार्थो भवांस्तुत्य:, फलं नैश्रेयसं सुखम् ।। 3 ।। ईशवीय ।। शतीमध्ये श्रीमानतुंगाचार्येण धारानगर्यां भक्तामरस्तोत्रं विरचितं, 48 पद्यात्मकं यस्मिन् श्रीऋषभतीर्थकरस्य गुणकीर्तनकृतम्। तस्य पद्यं यथा - वसंततिलकावृत्तम् - ___अल्पश्रुतं श्रुतवतां परिहासधाम् , त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिल: किल मधौ मधुरं विरोति, तच्चाम्रचारूकलिकानिकरैकहेतुः ॥6॥ अपि च - उद्भतभीषणजलोदर भार भग्ना: शोच्यां दशामुपगताश्च्युतजीविताशा: । त्वत्पादपंकजरजोऽमृत दिग्धदेहा: मा भवन्ति मकरध्वज तुल्य रूपाः ।। 45 ।। कुमुदचंद्राचार्यप्रणीतं कल्याणमन्दिरस्तोत्रं, 44 पद्यात्मकं, यस्मिन् श्रीपार्श्वनाथ तीर्थकरस्य गुण स्तुति: कृता । यथा - वसन्ततिलकावृत्तम् हृवर्तिनि त्वयि विभो ! शिथिलीभवन्ति जन्तोः क्षणेन निविडा अपि कर्मबन्धाः । सद्यो भुजंगम मया इव मध्यभाग ___मभ्यागते वनशिखण्डिनि चंदनस्य ।। 8 ।। अपि च - आकर्णितोऽपि महितोपि निरीक्षितोपि, नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मितेन जन बान्धव ! दुःखपात्रं यस्मात् क्रिया: प्रतिफलन्ति न भाव शून्या: ।। 38 ।। विक्रमाब्दे वादिराजचार्येण “एकीभावस्तोत्रं" कृतं 25 श्लोक युक्तं भक्तिरसोपेतं, यस्य पद्यमेकं प्रकाश्यते - मन्द्राकान्ताछन्दः आहार्येभ्य: स्पृहयति परं, य: स्वभावादहयः । शास्त्रग्राही भवति सततं, वैरिणा यश्च शक्यः । सर्वांगेषु त्वमसि सुभगस्त्वं न शक्यः परेषाम् तत् किं भूषावसनकुसुभैः, किं च शस्त्रैरुदस्त्रैः ।।। 9।। (484 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy