________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ मुक्तिं स्वर्ग च प्राप्य नित्यानन्दयुक्ता: देवा: भवन्ति, तपस्याकाले कष्टे न सह इन्द्रिय विजयं कृत्वा प्रसन्ना: जायन्ते।
सत्यपौरुषं बिना मानव जीवनं निरर्थकं तथा अपूर्ण जागृति शून्यं भवति इति विचारं वदन्ति महात्मागांधी महोदया: टालस्टाय प्रमुखा: विद्वांसः । सुखं दुःखं च क्रमश: अस्माकं जीवने सततं यान्ति आयान्ति च , तै: जीवनस्य गौरवं दृश्यते । कथितं च "चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च"।
लोके केचित् जना: पुरुषार्थेन जीवन जागृतिं लोकहितं च न पश्यन्ति, ते मत्कुणा: इव पर प्राणिनां जीवनस्य द्यनस्य कुण्टाका: भवन्ति । विवेकशून्या: ते देशस्य समाजस्य च उन्नति तत्परा: दृश्यन्ते न कदापि । कर्तव्य हीना: जना: पापानि अन्यायं च कुर्वन्त: चलचित्रे द्यूतक्रीडायां हास्यविनोदे च व्यर्थं कालं क्षपयन्ति नीति विशारदैः कथितम् -
काव्यशास्त्रविनोदेन: कालो गच्छति धीमताम् व्यसनेन च मूर्खाणां, निद्रया कलहेन वा ॥ इति
ज्ञान सहितेन उद्योगेन राष्ट्रस्य सुरक्षा समुन्नतिः स्वाधीनता च संजायते । पूर्वकाले अस्माकं भारत देश: वैदेशिकै: राजनीतिज्ञैः अतीव पराधीन: निर्बलश्च आसीत्। ते वैदेशिक भारतीयस्य सम्पत्ति धर्म संस्कृतीनां विनाशं कृत्वा राज्यं कुर्वन्ति स्म । संस्कृत हिन्दी भाषयो: क्षतिं विधाय आंग्लभाषायाः प्रचारं अकुर्वन् ।
भारतराष्ट्रस्य नीतिविज्ञा: नेतार: गांधी नेहरु मालवीय प्रमुखा: पंचशीलरूपं आन्दोलनं विधाय, कारागारेषु क्लेशान्प्रसह्य, स्व राष्ट्रस्य स्वतंत्रतां प्राप्नुवन्ति स्म । अनशनं सत्याग्रहं च कृत्वा स्वाधिकार प्राप्तवन्त:।
अयं सारांश :- यत् नीतिज्ञानां नेतृणां - वीराणां उद्योगेनैव भारतदेश: स्वतंत्र: अभूत् । ते नेतारः सत्याग्रहिणश्च अस्माकं मान्या: प्रशंसनीयाश्च सन्ति । अस्मिन् विषये श्री सुकरात महोदय: वैदेशिक: अपि उल्लेखनीयः। नीतिकाराणां सुमाषितम् -
जीवितात्तु पराधीना ज्जीवानां मरणं वरम् । मृगेन्द्रस्य मृगेन्द्रत्वं वितीर्ण केन कानने ॥ सम्राट अशोकः श्रमस्य मनोरञ्जकं माहात्म्यं । निज राज्ये प्रकटीकृतवान् ॥ इति ॥
-
451
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org