________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ उद्योगिनं पुरुषसिंह मुपैति लक्ष्मी: (क्लेशः फलेन हि पुनर्नवतां विधत्ते अथवा विपत्ति रेवाभ्युदयस्य मूलम्)
कार्यसाधनाय परिश्रम: तप: उद्योग: पुरुषार्थ: इत्येवं कठोरश्रमस्य प्रयोजनं अभीष्टं विद्यते । कलिः शयानो भवति, संजिहानस्तु द्वापरः ।
उत्तिष्ठंस्त्रेता भवति, कृतं सम्पद्यते चरन् ।।1।। कलिकाले जनाः शयनं कुर्वन्ति । द्वापरयुगे मानवा: जागृता: भवन्ति । त्रेतायुगे नरा: उत्तिष्ठन्ति अर्थात् कार्यकरणे उद्यता: भवन्ति । सतयुगे च मनुजा: मनसा वाचा कर्मणा श्रेष्ठकार्यं कुर्वन्ति।
लोके ऽस्मिन् सर्वे नराः प्रयत्नवन्तो वर्तन्ते । निजप्रयत्नेषु प्रकृत्या फलकांक्षिण: नरा: बहुविधैः क्लेशैः तत्पराः भवन्ति । नि:सन्देहं क्लेश पूर्ण इदं नरस्य जीवनम् । तथापि जीवनं सुखपूर्णं भवति । श्रमेण हि फल प्राप्तिः भवति, अत: मानवा: मनसा वाचा कर्मणा (श्रमेण) निजकार्य सम्पादयन्ति । फले प्राप्ते सति मानवा: अत्यंतं सुखं अनुभवन्ति नवचेतनायुक्ता: नवजीवनशोभिता इव भवन्ति । इदमेव परिश्रमस्य महत्त्वं मानव जीवने।
श्रमाद् विना आनंद प्रदं फलं मानव: कदापि न प्राप्नोति । क्लेशेन धनोपार्जनं कृत्वा जना: यथा सुखिनः भवन्ति, न तथा स्वयमेव प्राप्तं जलं वायुं भोजनंच गृहीत्वा, प्रसन्नाः भवन्ति ग्रीष्मदिवसेषु कृषका: फलाशयैव कृषिकार्ये श्रमं कुर्वन्ति, क्लेशं च तृणवन्मन्यन्ते । छात्रा: प्रति दिनं सोत्साहं पठन्त: प्रथम श्रेण्यां परीक्षां समुत्तीर्य अतिप्रसन्ना: जायन्ते । उक्तं च -
पठन्ति विद्यार्थिगणा: श्रमेण ग्रन्थं सहन्तः कठिनां विपत्तिम् ।
भजन्ति ते तत्फल मात्तसौख्या: विपत्तिरेवाभ्युदयस्य मूलम् ॥1॥ धनोपार्जनं धनरक्षणं च परिश्रमेणैव भवति । सुवर्ण धान्यादीनां लिप्सया जना: दिने रात्रौ च सततं क्लेशं सहन्ते, विविध सम्पत्तिं च प्राप्य अतीव प्रसन्नाः भवन्ति । तथा चोक्तं
उद्योगिनं पुरुष सिंह मुपैति लक्ष्मी दैवेन देयमिति का पुरुषाः वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध यति कोऽत्रदोषः ।
भवेत् यदि फलप्राप्ति: श्रमं विना तर्हि मानव जीवनं निर्बलं दुःखितं च जायेत । श्रमरहिता जना: व्यर्थ समय व्यतीतं कुर्वन्ति, अलसा: च भवन्ति, अन्यायं द्यूतं च समाचरन्ति । केनचित कविना कथितं - "आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः” इति । कार्यभारेण एकवारं क्लेश युक्त: जन: फलं लब्ध्वा क्लेशं कष्टं न मन्यते, अपितु जीवने नवीनवातावरणं सम्प्राप्य प्रसन्ना भवन्ति । वानप्रस्था: सन्यासिनश्च प्रचुरकष्टं सहन्त: तपसा आत्मशुद्धिं कुर्वन्ति । अन्तसमये तप: फलं
-450
450
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org