________________
१६) सर्वश्रुतिशिरोरत्न विराजितपदांबुजः । सिद्धान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ।। १७) स्थावरं जंगम चैव तथा चैव चराचरम् । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ १८) अखण्डमंडलाकारं व्याप्तं येन चराचरं । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १९) भवारण्यप्रविष्टस्य दिग्मोहभ्रान्तचेतसः । येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः । २०) तापत्रयाग्नितप्तानां अशांतप्राणीनां भुवि । गुरुदेव परा गंगा तस्मै श्रीगुरवे नमः ॥ २१) यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । य एव सर्वसंप्राप्तिस्तस्मै श्रीगुरवे नमः ।।
Jain Education international
गुरु महिमा
(१) ध्यानमूलं गुरोर्मूतिः पूजामूलं गुरोः पदम् । मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥
(२) एको देव एकधर्म एकनिष्ठा परं तपः । गुरोः परतरं नान्यन्नास्ति तत्वं गुरोः परम् ॥
(३) गुकारं च गुणातीतं रुकारं रुपवर्जितम् । गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ॥
‘ગુ’ શબ્દ ગુણાતીત અને ‘રુ’ શબ્દ રૂપાતીતને પ્રગટ કરે છે. જે ગુણ-રૂપી અતીત (નિર્ગુણનિરાકાર) સ્વરૂપને આપનાર છે તે ગુરુ કહેવાય.
(४) शुद्धाभ्यासस्य शान्तस्य सदैव गुरुसेवया । गुरुप्रसादादत्रैव तत्त्वज्ञानं प्रकाशते ॥
શુદ્ધ અભ્યાસ કરનાર, પ્રશાંત અને ગુરૂની સેવા કરનારાઓને
ગુરૂકૃપાથી અહીં જ તત્ત્વજ્ઞાનનો પ્રકાશ થાય છે. (५) किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि । दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ॥
For Evate & Personal Use Only