________________
तस्मै श्रीगुरवे नमः
१) अज्ञानतमिरािंधानाम् ज्ञानांजनशलाकया ।
नेत्रमुन्मिलितं येनतस्मै श्रीगुरवे नमः ॥ २) संसारवृक्षमारुढा: पतन्ति नरकार्णवे।
येनचैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ।। ३) अनेकजन्मसंप्राप्त सर्वकर्मविदाहिने।
स्वात्मज्ञानप्रभावेणतस्मै श्रीगुरवे नमः ।। ४) त्वं पिता त्वं च मे माता त्वं बंधुस्त्वं च देवता ।
संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ।। ५) गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ।। ६) नानारुपमिदं सर्वंन के नाप्यस्ति भिन्नता ।
कार्यकारणताचैव तस्मै श्रीगुरवे नमः ।।
७) यस्य कारणरुपस्य कार्यरुपेण भाति यत् ।
कार्यकारणरुपाय तस्मै श्रीगुरवे नमः ॥ ८) यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अनन्यभावभावाय तस्मै श्रीगुरवे नमः ।। ९) यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदैकरुपरुपाय तस्मै श्रीगुरवे नमः ॥ १०) येन चेतयते हीदं चित्तं चेतयते न यम् ।
जाग्रत्स्वप्रसुषुप्त्यादि तस्मै श्री गुरवे नमः । ११) यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥ १२) यस्य स्थित्या सत्यमिदं यद्भाति भानुरुपतः ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ १३) नगुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वं ज्ञानात्परंनास्ति तस्मै श्रीगुरवे नमः ॥ १४) ज्ञानशक्तिसमारुढस्तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः ॥ १५) मन्नाथः श्री जगन्नाथो मद्गुरुस्त्रिजगद्गुरुः ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ।।
For
te & Personal use only
we jainalibraryiorg