________________
જ્ઞાનાંજલિ
१३२]
श्रीमतां वादिदेवसूरीणां प्रभावकचरित्रान्तर्गतेन "श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते । जैनप्रभावनास्थेमनिस्तुषश्रेयसि स्थिताः ॥ रसयुग्मरवौ वर्षे १२२६ श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराहणे गुरोदिने ॥ मर्त्यलोकस्थितं लोकं प्रतिवोध्य पुरन्दरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥
त्रिभिविशेषकम् ॥" अनेन पद्यत्रितयेन १२२६ वर्षे दिवंगतत्वं प्रकटमेव । एतेषामेव च सूरिवराणां प्रशिष्यत्वादेतद्ग्रन्थकर्तुत्रयोदशशताब्दयन्तभांवित्वं स्पष्टमेव ।।
श्रीमद्यशोवीरसत्तासमयोऽपि त्रयोदशशताब्दीय एवेति प्राचीनजैनलेखसंग्रहद्वितीयभागान्तर्गतश्रीजालोरदुर्गलेखकात्स्पष्टमेवावबुध्यते । स चायम्
ॐ ॥ संवत् १२२१ श्रीजाबालिपुरीयकाञ्चनगिरिगढस्योपरि प्रभुश्रीहेमसूरिप्रबोधितश्रीगूर्जरधराधीश्वरपरमार्हतचौलुक्यमहाराजाधिराजश्रीकुमारपालदेवकारिते श्रीपार्श्वनाथसस्कमूलविम्वसहितश्रीकुवरविहाराभिधाने जैनचैत्ये । सद्विधिप्रवर्तनाय बृहद्गच्छीयवादीन्द्र. श्रीदेवाचार्याणां पक्षे आचन्द्रार्क समर्पिते ॥ सं. १२४२ वर्षे एतद्देशाधिपचाहमान कुलतिलकमहाराजश्रीसमरसिंहदेवादेशेन भां० पासूपुत्र-भां० यशोवीरेण समुद्धते श्रीमद्राजकुलादेशेन श्रीदेवाचार्यशिष्यैः श्रीपूर्णदेवाचार्यः । सं. १२५६ वर्षे ज्येष्ठ सु० ११ श्रीपार्श्वनाथदेवे तोरणादीनां प्रतिष्ठाकार्ये कृते । मूलशिखरे च कनकमयध्वजादण्डस्य ध्वजारोपणप्रतिष्ठायां कृतायां । सं. १२६८ वर्षे दीपोत्सवदिने अभिनवनिष्पन्नप्रेक्षामध्यमंडपे श्रीपूर्णदेवसूरिशिष्यैः श्रीरामचन्द्राचार्यैः सुवर्णमयकलशारोपणप्रतिष्ठा कृता ॥ शुभं भवतु ॥ छ ।” ____ संशोधनसमयेऽस्य नाटकस्यैकमेव पुस्तकं पत्तनस्थवाडीपार्श्वनाथसत्कपुस्तकभाण्डागारात्सुश्रावक-वाडीलाल-हीराचन्द-दलालद्वाराऽऽसादितम् । तच्चातीवाशुद्धं पुरातनं क्वचित्क्वचित्पतितपाठम् । तदाधारेणैव संशोधितमिदम् । क्वचित्क्वचिदर्थसंगतावसत्यामन्यादर्शान्तरालाभेन तथैव मुद्रितम् । तच्च धोमद्भिः संशोध्य वाचनीयमित्यभ्यर्थयते
___श्रीमच्चतुरविजयचरणोपासका
पुण्यविजयः। [ 'प्रबुद्धरौहिणेय' स्य सम्पादकीयनिवेदनम् , भावनगर, ई. स. १९१८ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org