________________
ચાગરાત-સમ્પાદનમ
[ 3
कालं यावदस्मभ्यमौदार्यभावेन समर्पिता, यैश्च विद्वत्प्रवरैरेतद्ग्रन्थयुगलस्य संशोधने भिन्नभिन्नरूपेण महामूल्यं साहाय्यं वितीर्ण तेभ्यः सर्वेभ्योऽपि साभारं धन्यवाददानं न विस्मरति मम हृदयम् ।
[' श्रीहरिभद्रसूरिविरचितं योगशतकं स्वोपज्ञवृत्त्या सहितम्, ब्रह्मसिद्धान्तसमुच्चयश्च ' इत्येतस्य सम्पादनस्य प्रस्तावना, अमदावाद, १९६५ ]
निवेदक:बृहद्गुरुप्रवर्त्तककान्ति विजय शिष्याणुगुरुप्रवरश्रीचतुरविजयचरणोपासकः मुनिः पुण्यविजयः ।
प्रबुद्ध रौहिणेय - सम्पादनम् *
अस्य प्रबुद्ध रोहिणेयाभिधनाटकस्य कर्तारः श्रीमद्वादिदेवसूरिशिष्यश्रीजयप्रभसूरिशिष्याः श्रीमन्तो रामभद्रमुनिवरा इति प्रस्तावनान्तर्गतेन
'वादीन्द्रस्मयसंचयव्ययत्रणः श्रीदेवसूरिः प्रभुस्तद्गच्छाम्बुधिपार्वणोऽमृतरुचिः सैद्धान्तिकग्रामणीः । श्रीमत्सूरिजयप्रभः शमनिधिस्त्रैविद्यवृन्दारक
स्तच्छियोऽस्ति समस्तनिस्तुपगुणारामः स रामः कविः ॥ सत्यं सन्त्येव शीतांशुसंगीतवनितादयः । धुर्यं किमपि माधुर्य रामभद्रगिरां पुनः ॥
66
ततस्तद्विरचितं सकर्णश्रव्यनव्योक्तिसूक्तिमुक्ताञ्चितं विविधस्निग्धरसवैदग्ध्य निधान' प्रबुद्ध रौहिणेयाभिधानं प्रकरणमभिनेष्यामः । " इत्यनेन पाठेन प्रकटमेव प्रतीयते ।
सत्ता समयश्चैव विक्रमीयस्त्रयोदशशताब्दीय एव, श्रीमद्वादिदेवसूरिप्रशिष्यत्वात् श्रीमत्पार्श्वचन्द्रपुत्र- श्रीमद्यशोवीर - श्री अजयपालका रितश्रीयुगादिदेवप्रासादान्तरस्य नाटकस्य सामाजिकैरभिनयसमादेशनाच्च ।
*
श्री रामभद्रमुनिविरचितं प्रवुद्धरोहिणेयम् (प्रकाशक - श्री जैन आत्मानन्द सभा, भावनगर, ई. स. १९१८ ) इत्ये सम्पादकीयनिवेदनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org