SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ચાગશતક-સમ્પાદનમ્ [ १२८ प्रकाश्यमानैषा योगशतकप्रकरणस्य स्वोपज्ञटीका कच्छदेशीय मांडवीनगरस्थित खरतर - गच्छीय जैनज्ञानकोशात् साम्प्रतमेव प्राप्ताऽस्ति । न खल्वियं ग्रन्थरचनाऽद्य यावद् ज्ञातचराऽऽसीदिति । तथाऽस्यां स्वोपज्ञटीकायां " निलोंठितं चैतदुपदेशमालादिष्विति नेह प्रयत्नः (पृ. २४ ) इत्युलेखदर्शनात् साम्प्रतं कुत्राप्यदृश्यमानः श्रीमद्भिर्विरचित उपदेशमालाख्यो ग्रन्थ आसीदिति निश्चीयते । एवमेव श्रीमद्भिर्मलयगिर्याचार्यपादैः श्रीजिनभद्रगणिक्षमाश्रमणचरणनिर्मितसङ्ग्रहणीप्रकरणवृत्तौ श्रीहरिभद्रसूरिपुरन्दर विहितायास्तद्वृत्तेः स्थानस्थानेषु उल्लेखः कृतोऽस्तीत्यतस्तत्संसूत्रिता सङ्ग्रहणी प्रकरणवृत्तिरप्यासीदिति । उपलभ्यते हीयं जेसलमेरुभाण्डागार - मत्सगृहीतज्ञानकोशादिष्विति । अपरं च श्रीमद्भिर्याकिनी महत्तरासूनुभिः स्वकीयाऽऽवश्यक शिष्यहिताख्यलघुवृत्तिप्रारम्भे " यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि सङ्क्षेपात् । तदुचितसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् । ” इत्युल्लेखदर्शनाद्विदुषाम् तद् ज्ञातचरमेव यत्-श्रीमद्भिः पूर्वं आवश्यकसूत्रोपरि बृहद्वृत्तिविरचिता, तदनन्तरं शिष्यहिताख्या लघुवृत्तिरिति । तथा मलवारिश्री हेमचन्द्र सूरिपाद संसूत्रित शिष्य हिता वृत्तिटिपनकान्तर्वर्त्तिनः “ यद्यपि मया वृत्तिः कृता " इत्येवंवादिनि च वृत्तिकारे "चतुरशीतिसहप्रमाणाऽनेन वाssवश्यकवृत्तिरवरा कृताऽऽसीदिति प्रवादः " इत्युलेख दर्शनाच्च सा वृद्दद्दूत्तिश्चतुरशीतिसहस्रश्लोकप्रमाणाऽऽसीदित्यपि विदितचरमेव प्रज्ञावतां प्राज्ञानामिति । तथापि 'तत्र वृहद्वृत्तौ तैः सूरिशः के के पदार्थाः कथं व्यावणितार्थाचिता वाऽऽसन् ? ' इत्यावे Chisaभीर्यपूर्ण एक उल्लेखस्तैः स्वविरचितनन्दिसूत्रलघुवृत्तौ " साङ्केतिक शब्दार्थ सम्ब न्धवादिमतमप्यावश्यके नयाधिकारे विचारयिष्यामः " (पृ. ६८) इतिरूपो निष्टङ्कितोऽस्ति । एतदेोलेख मात्र दर्शनादेतज्ज्ञायते यत्-- श्रीमद्भिस्तत्र बृहद्वृत्तौ दार्शनिकजगदाश्चर्यकारका एतादृशः संख्यातीताः पदार्था वादिमताश्च व्यावणिताश्चचिता निरस्ताचापि भविष्यन्तीति । दुर्दैवमेतदस्माकीनं यत्सा चिरकालादेव दुःषमाकालेन कवलितेति । ब्रह्मसिद्धान्तसमुच्चयकारः मत्परिकल्पितनाम्नः प्रस्तुतस्य ब्रह्मसिद्धान्तसमुच्चयाख्यस्यास्य प्रकरणस्यान्तिमं पत्रं तावन्नोपलब्धमिति तत्प्रणेतृतन्नामादिविषयकं किमपि प्रमाणं साक्षान्नास्तीति प्रागेवाssवेदितम् । तत्र खण्डितापूर्णलब्धस्यास्य प्रकरणस्य ब्रह्मसिद्धान्तसमुच्चयः' इति नाम ग्रन्थाद्यश्लोकोक्तविषयानुसारेण मत्परिकल्पितमेव । निर्माता पुनरस्य प्रकरणस्यैतद्ग्रन्थगतविषयादिविचारणेन याकिनी महत्तरास नुराचार्यश्रीहरिभद्रपाद आभाति । तथाहि तत्र तावद् यथाऽन्येषु श्रीहरिभद्राचार्यविनिर्मितेषु योगदृष्टिसमुच्चयप्रभृतिग्रन्थेषु श्रीमहावीर जिननमस्कारः प्रतिपाद्यविषयोल्लेखश्च दृश्यते तथाऽत्रापि ग्रन्थ इति । तथा योगदृष्टिसमुच्चय- योगबिन्दु-अटकप्रकरण-विंशतिविंशिकादिप्रकरणेषु याहशी विषयविभागविचारणपरिपाटी यादृशश्च पारिभाषिकशब्दप्रयोगो वरीवृत्यते तथैवात्रापि ग्रन्थे तादृश्येव विषयविचारणारपाटी ताश एव च पारिभाषिक शब्दादिप्रयोगो दृष्टिपथमवतरति । तथा ललितविस्तरावृत्त्यादिवदत्रापि प्रकरणे ' आगमेनानुमानेन० ' इति श्लोकोऽपि वर्तते । एवमेव योगबिन्दुप्रकरणे 'दानं भृत्याविरोधेन ' इत्यत्र यथा 'भृत्याविरोध ' वाक्यप्रयोगो वर्तते तथाऽत्रापि प्रकरणे 'भृत्यानामुपरोधेन ' ( श्लो० १९० ) ' भृत्यानामुपरोधश्च ' ( लो० २०० ) इत्यत्र इयते । तथैव षोडशकप्रकरणे 'अद्वेषो जिज्ञासा' इत्यादिपद्ये यथाऽष्टाङ्गानां निरूपणं ज्ञा. १७ Jain Education International 39 For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy