________________
१२८]
જ્ઞાનાંજલિ ग्रन्थस्यास्य पाण्डित्यपरिपूर्णा प्रतिकृतिः (प्रेस कापी) भोजककुलमण्डनस्य गृहस्थभावेऽपि प्राप्तात्मरमणताधर्मस्य धर्मात्मनो गिरधरलालस्य पौत्रेण तथा आत्मरमणतानिष्ठस्य धर्मभावनावासितान्तःकरणस्य मोहनलालस्य नन्दनेन अमृतलालपण्डितेनातिसावधानतया विहितेत्यस्य ग्रन्थस्य सम्पादने संशोधने चातिसौकर्य सञ्जातम् ।
द्वितीयः किल खण्डितापूर्णलब्धत्वाद् अस्मत्कल्पिताभिधानो ब्रह्मसिद्धान्तसमुच्चयनामा ग्रन्थोऽस्मिन्ग्रन्थान्के प्रकाश्यते । अयं किल ग्रन्थोऽणहिह पुरपत्तनीयशतशःखण्डीभूततालपत्रीयग्रन्थराशिमध्यात् शीर्णविशीर्णतालपत्रखण्डरूपेण मयव समुपलब्धो मम पार्श्व एव वर्तते । इयं हि प्रतिः प्रतिपत्रं सातद्वित्रखण्डा द्वात्रिंशत्पत्रात्मिकाऽपूर्णा ४२३ श्लोकपर्यन्तमासादिताऽस्ति । प्रतिपत्रं चतस्रः पञ्च वा पङ्क्तयो वर्तन्ते । प्रतिपङ्कि पञ्चचत्वारिंशद् यावदष्टचत्वारिंशदक्षराणि लिखितानि निरीक्ष्यन्ते । प्रतिरियं प्रायः शुद्धव वर्तते तथापि क्वचित्क्वचिदशुद्धयोऽपि दृश्यन्ते । अस्याः प्रतेरन्तिम पत्रं नोपलब्धमिति निश्चित. तया न ज्ञायते कस्मिन्समये लिखितोऽयं ग्रन्थः ? इति, तथापि लिपितालपत्रीयजातिलेखनपद्धत्याद्यवलोकनेन इयं प्रतिः द्वादश्यां शताब्द्यां लिखितेत्यनुमीयते। प्रतिरियमायाम-पृथुलत्वे ११॥ x १॥ इंचप्रमाणा वर्तते । अस्याः प्रतेः द्वादश पत्रं सर्वथैव नोपलब्धम् । तथा ७ तः १०, २२, २४, २६, २९तः ३२ पत्राणामुत्तरविभागो नष्ट इति नोपलब्धः ।
अस्याः शीर्णविशीर्णखण्डखण्डीभूतापूर्णप्रतेराधारेणास्य ब्रह्मसिद्धान्तसमुच्चयग्रन्थस्य सम्पादनं संशोधनं च विहितमस्ति । अस्यापि ग्रन्थस्य वैदुष्यपूर्णा प्रतिकृतिः (प्रेस कॉपी) पण्डितश्रीअमृतलालेनैवातिसावधानतया महता श्रमेण निर्मिताऽस्ति, येनास्यापि सम्पादने संशोधने च समधिकं सौर्यमजनि।
किञ्च-अस्य ग्रन्थयुगलस्य संशोधन केवलं मयव विहितमिति नास्ति । किन्तु पण्डितश्रीसुखलालजित्-ला. द. भा. सं. विद्यामन्दिरमुख्यनियामकदलसुखमालवणिया-पण्डित अमृतलाल-मुनिप्रवरथीजम्बूविजयजी-प्रज्ञांशमुनिवरश्रीकान्तिविजयप्रभृतिभिः स्थानस्थानेषु संशोधन संसूचनं च विहितमस्ति । अपि च पण्डितश्रीअमृतलालेन तु प्रतिकृतिविधानादारभ्य प्रुफपत्राद्यवलोकन-परिशिष्टविधानादिसमग्रकार्येषु दत्तचित्ततया साहाय्यं विहितमस्तीति समवधारयन्तु विद्वांसः ।
__ ग्रन्थयुगलमप्येतद् योगविषयकं वर्तत इति तन्मार्गसिसाधयिषवो जिज्ञासवो वा मुनिवरा विद्वांसश्चावश्यमेवाऽऽसादयिष्यन्ति स्वेप्सितमेतद्ग्रन्थयुगलावगाहनेन ।
ग्रन्थकार: स्वोपज्ञटीकासमलङ्कृतस्यास्य योगशतकाख्यप्रकरणस्य प्रणेता याकिनीमहत्तरासूनुराचार्यश्रीहरिभद्रसूरिरेवेति तत्पुष्पिकाद्यवलोकनेन स्पष्टमेव शायते । प्रस्तुतग्रन्थकर्तुराचार्यस्य सत्तासमय-निवासस्थान-जीवन-पाण्डित्य-ग्रन्थनिर्माणादिविषये डॉ. याकोबी पण्डितसुखलालजी-श्रीजिनविजयजी-प्रशांशश्रीकल्याणविजयजी-डा. झवेरी इन्दुकलाभगिनीप्रभृतिमिरनेकैर्विद्वत्प्रवरैः सुबहु विचारितमुल्लिखितमपि चास्तीति नात्रार्थे कश्चित्प्रयासो विधीयते। केवलं श्रीहरिभद्रसूरिपादविरचितनवीनग्रन्थनामोल्लेखादिविषये किञ्चित्प्रयत्यते । तत्र ताव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org