________________
[४४४]
આ વિનદનસૂરિ સ્મારક दर्शयाम्यत एवाह-मेवं न: वोऽनुमोदनम् । अधिष्ठातुः प्रसादाच्च, धर्मस्यापि प्रभावतः ॥ २ ॥ संघस्य पुण्यतो नून, तथा वो भावनाबलात् ।
साफल्यं निश्चितं यायाद्, यः प्रारब्धो महामहः ॥ ३ ॥ तत्र राजनगरे अपि अ-राज-नग-रे विराजमानानां, धनरहितानां अपि तपोधनानां धीधनानां वा, अपरिग्रहवतिनां अपि श्रुतपरिग्रहाणां शीलपरिग्रहाणां वा संयमपरिग्रहाणां वा, धीराणां, वीराणां, सार्वधर्माचार्यकुञ्जराणां, सुशीलचन्द्राणां अपि अकलङ्कानां, अकलङ्कायमानानां अपि समस्तसितपटपटलपटिष्ठानां, वर्षाणां सप्तसप्ततिं अतिक्रम्य अष्ठसप्ततिं प्रविशता, धन्यजीवनानां, संयमसाधनालब्धमनुजजन्मसुफलानां, सर्वनन्दनानां सार्वानुरागिगणनन्दनानां वा श्रीविजयनन्दनसूरिपूज्यानां पवित्रपादपद्मषु अस्माकं श्राद्धी-श्राद्धानां वन्दनाविस्तारः प्रसरतु सादरं सविनयं च ।
तत्रभवतां भवतां तत्र आरोग्यं वर्धतां इति वाञ्छामः । भवत्प्रसादाद्धि वयं अत्र कुशलाः स्मः । ० ० ०
अस्माकं धर्ममित्रं यो, धर्मनेता गुणाकरः । सदा जीयाच्च जीव्याच्च, नन्दनात् सूरिनन्दनः ॥ १ ॥ प्रमोदभरं प्राप्नुमो, यं दृष्ट्वा मानसे वयम् ।। स सुरिवरो वर्षाणा-मसंख्यं जीवतु शतम् ॥ २ ॥ दीपयतु शासनं जैनं, करोतु प्रोन्नति तथा । श्राद्धानां साध्वी-साधूनां, श्राद्धीनां च विशेषतः ॥ ३ ॥ देशकालानुसारेण, वचः शोधयतु जैनम् । प्रखरया स्वशेमुष्या, रूढेः स्यात् तानवं यतः ॥ ४ ॥ प्रार्थयामो वयं नित्यं, एवं शासनस्वामिनम् ।
सूरिरारोग्यपूर्णः स्तात्, श्रीमान् विजयनन्दनः ॥ ५ ॥ (सिद्धपु२; ता. १३-११-१८७५)
-भवतां उपासकः बेचरदासः (વિ. સં. ૨૦૩રના કાર્તક સુદ ૧૧ને પૂજ્ય આચાર્ય મહારાજના ૭૮માં વર્ષ પ્રવેશ પ્રસંગે આવેલ શુભેચ્છા-પુત્ર.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org