________________
श्री विजयानन्दसूरीणामष्टकानि वन्द्यानामनृतेन वन्दनवचोवृन्देन संवन्दनादादेयानि सुगृह्णतेऽनवरतं दिङ्मण्डले कोविदाः ।। नासत्यास्तुतिवागमुष्य बत तत्सत्यस्तुतेर्वादिने । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः न्यायांभोधिश्रीमद्विजयानन्दाष्टकं पूर्णम् । सहृदयसमुदयमनसः प्रमुदनिदानं सदोदयताम्
॥८॥
॥९॥
यो ब्रह्मव्रतपालनकचतुरः सद्धर्मवक्ता महान् । विश्वख्यातयशा उदारहदयः श्रीवीतरागैकधीः ।। प्राज्ञम्मन्यकुतर्ककृन्तनविधौ यल्लेखनी विश्रुता । न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥१॥ यः स्याद्वादमहास्त्रभृजिनवचः प्रोत्थापकाण्टुण्ढकान् । वादेऽपास्य जुगोप विश्वविदितं श्रीवीतरागार्चनम् ॥ आक्षेपाँश्च निराकरोत्परकृताज्जैनागमे तत्त्वविद् । न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥ २ ॥ यः संसारमहाटवीपरिपटजन्तू गोप श्रमात् । तीर्थेशप्रतिपादितागमपथं सन्दर्शयन्मोक्षदम् ॥ सिद्धान्तोदधिमन्थनाप्तविरतिश्रीवर्धनो वाक्पतिः। न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥ ३ ॥ यः पाश्चात्यबुधाँस्तदीयसमितौ श्रीवीरचन्द्राभिधं । यीशूमीश इव प्रबोधनपरः संप्रेषयद् धार्मिकम् ॥ यद्युक्तीः प्रविभाव्य राघवतनूजः ख्यातिमामोद् भृशं । न्यायाम्भोधिमुनीन्द्रवन्धविजयानन्दश्चिरं नन्दतात् ॥४॥
[ श्री आरमारामजी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org