________________
मुनिश्री विचक्षणविजयजी शास्त्रस्याभ्यसनं विना श्रुतिधरो यः सूरिरन्यैरलं । न्यायोम्भोधिमुपाधिमाधिततरां राजबहुव्रीहिकम् ॥ भूयो जीवनदानमानविदितो जीमूतवद् यः स्वयं । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥२॥
सद्धर्माचरणप्रचारणपरो विश्वम्भराभूषणं । वैराग्यैकनिधिर्विधिः सुयशसां कारुण्यवारांनिधिः ।। लोकानां हितकामनापरतया तीर्थाटने व्यापृतः । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः
॥३॥
उत्साहेन समाकलय्य विबुधनातं समन्तात्पुननैबन्धं निवहं निबध्य सकलं शास्त्रं सदोपैदिधत् ॥ सोऽयं सत्कुलजः समस्तजनतासौजन्यवित्तिंगतः। सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः
॥४॥
सारासारविचारचारुचतुरो दिव्यत्प्रतीची स्फुरद् । बौद्धवातविपक्षपक्षदलनप्रेक्षाप्रतीतः परम् ॥ जैनाचार्यपदप्रफुल्लकुसुमैः संपूजितः सर्वतः। सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः
॥५॥
यं प्राप्ता पृथुना गुणातिशयिता लोकानवन्ती यतस्तत्पृथ्वीति भुवोऽवनीति च वरं नामार्थवत्तां गतम् ॥ लोकालोचनयष्टितामुपगतो जैनीयधर्मध्वजः । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥६॥
चश्चच्चन्द्रमरीचिसंचयसुधाधाराकरीन्द्रस्फुरत्कुन्दामन्द विकाशकैरवलसन्मुक्ताहिमानीसमः ॥ यस्यास्मिन् भुवने यशःसमुदयो विद्योतते सोऽनिशं । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥७॥
सताब्दि ग्रंथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org