________________
श्रीविजयानन्दसूरीश्वरस्तवनम्
प्रशस्ति:कल्याणमन्दिरमहास्तवतुर्यपाद--
पूर्त्याङ्कितं स्तवनमीहितदानदक्षम् । वीरात् (२४६२) कराङ्गयुगनेत्रमिते गतेऽब्दे,
श्रीविक्रमाद् (१९९२) द्विनिधिनन्दसितांशुसंख्ये ॥ १ ॥
अमरविजयपादाम्भोजशृंगायितेन,
चतुरविजयनाम्नो शिष्यलेशेन दृब्धम् । शुभवति रविवारे पोषकृष्णे दशम्यां,
जयतु सुचिरमेतद् वाच्यमानं सुधीभिः ॥२॥ युग्मम् ॥
एतत् कृतं विजयवल्लभसूरिवर्य--
राज्येऽस्तदोषमपनीततमोवितानम् । आनन्दपूर्वविजयाभिधसूरिभर्तुः,
स्तोत्रं सतां स्रगिव कण्ठमलङ्करोतु
॥३॥
मुनिवर्यदेवविजयप्रेरणया जन्मतोऽस्य मुनिभर्तुः । महसि शताब्द्याः प्रचलति रचितमिदं भूतयेऽस्तु सताम् ॥ ४ ॥
श्रीमतो वासुपूज्यस्य तीर्थनेतुः प्रसादतः । सञ्जाताऽमुष्य निष्पत्तिः वर्ये सैन्यापुरे पुरे
[श्री आत्मारामजी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org