________________
शताब्दि ग्रंथ ]
Jain Education International
श्री. चतुर विजय मुनिप्रणीतम्
स्वाध्यायसंयमतपःसु परायणोऽपि, कामक्रुदादिभटराजिविराजितेन । मोहद्विषा मुनिपते ! तव सेवकोsपि,
वध्योऽस्मि चेद् भुवनपालक ! हा हतोऽस्मि ॥ ४० ॥
सम्प्राप्तभनवरसंयमपोतकाष्ठं,
पुण्यक्रयाणकविहीनमतीव दीनम् । पाहि प्रभो ! विशदबोधवरत्रया मां,
सीदन्तमद्य भयदव्यसनाम्बुराशेः
ज्ञानप्रचारकदलं परवादिजेता,
विस्तारयन् मुनिगणेऽमलसंयमर्द्धिम् । भूया मुनीश्वर ! पुनर्जिनशासनस्य, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि
कृच्छ्राणि यान्ति विलयं सुखमेधते च, लक्ष्मीः स्थिरा भवति सद्मनि शान्तिरेति । तेषां वशीभवति नाथ ! शिवाङ्गनापि, ये संस्तवं तव विभो ! रचयन्ति भव्याः
भव्या येऽमरवन्द्यं,
वन्दन्ते त्वां मुनीश ! विशदधियः । ते कर्मक्षयचतुरा,
अचिरान्मोक्षं प्रपद्यन्ते
For Private & Personal Use Only
॥ ४१ ॥
॥ ४२ ॥
11 83 11
11 88 11
• ८९ : •
www.jainelibrary.org