________________
श्री. चतुरविजयमुनिप्रणीतम्
॥ २० ॥
॥ २१ ॥
स्वीकुर्वते न वचनं तव ये हठेन,
येऽवर्णवादमपि तेऽनिशमुद्गृणन्ति । कृत्वा दृढानि कुधियो निजकर्मणां ते,
गच्छन्ति नूनमध एव हि बन्धनानि त्वद्देशनामृतरसं भगवन् ! निपीया___ऽऽकण्ठं जिनेन्द्रसमये दृढभक्तिरङ्गाः । धर्मोद्यमं विदधतश्च निरस्य कर्म,
भव्या प्रजन्ति तरसा अजरामरत्वम् ये दर्शनं जिनपतेर्मुनिराज ! ते च,
प्राप्तास्तथा चरणपङ्कजपर्युपास्तिम् । सज्ज्ञानदर्शनसुसंयमभूषिताङ्गा--
स्ते नूनम्वंगतयः खलु शुद्धभावाः श्यामाशयं जडमयं चपलात्मकं च,
सस्नेहमप्युरुरवं च शरीरिणं त्वम् । उच्चैः पदं नयसि भो ! स्वगुणेन वायु___ थामीकराद्रिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ वृत्तिर्मुनीश ! मनसो विपरीतमार्ग,
यान्ती त्वया परिहृता चिरलालितापि । दुश्चेष्टितं समवलोक्य निजाङ्गनाया,
नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥ १ सम्यक्त्वम् , अवलोकनं च । २ पक्षे जलमयम् । ३ विद्युयुक्तम् ।
॥ २२ ॥
शतान्दि ग्रंथ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org