________________
श्री विजयानंदसूरीश्वरस्तवनम् गुर्वादिभिः श्रुतिपथं गमितैर्गुणैस्तैः,
स्वामिन् ! यथामति तव स्तवनं विधास्ये । स्वप्ने क्षितस्य किमु कोऽपि न चान्तिमस्य,
विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५॥ भक्त्यात्मशक्तिमविचार्य समुद्यतोऽपि,
स्तोतुं न यामि विदुषामिह हास्यमार्गम् । संज्ञापयन्ति तरवोऽपि निजं विकारं,
जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ ६ ॥ आस्तां स्तवः स्मरणमप्यतुलं प्रमोद
माविष्करोत्यसुमतां तव सूरिवर्य ! । ग्रीष्मेऽध्वगान् निविडतापविलीनगात्रान् ,
प्रीणाति पनसरसः मरसोऽनिलोऽपि श्रुत्वाऽभिधानमपि ते प्रतिवादिनोरं,
नश्यन्ति कातरतरा इह काकनाशम् । सर्पाः स्थितिं विदधते किमु पार्श्वभूमि
मभ्यागते बनशिखण्डिनि चन्दनस्य ॥८॥ गोभिः प्रबोधयति विश्वमशेषमेतत् ।
सूरे ! त्वयि स्फुरिततेजसि लोकबन्धो । मुच्यन्त एव भविनो घनकर्मबन्धै--
औरैरिवाशु पशवः प्रपलायमानैः ॥९॥ १ सूर्यपक्षे सप्तमी, आचार्यपक्षे सम्बोधनम् ।
:८२:.
[ श्री आत्मारामजी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org