________________
दक्षिणविहारि-श्रीमदमरविजयमुनिपुङ्गवशिष्याणु-चतुरविजय
मुनिप्रणीतं कल्याणमन्दिरस्तवचरणपूर्तिरूपं
श्री बनाया ममाचार
माना।
तावनापा
श्रेयाश्रियां विमलकेलिगृहं विकाशि
पादारविन्दयुगलं नृसुरौघसेव्यम् । भव्याङ्गिनां भवमहार्णवतारणाय,
पोतायमानमभिनम्य जिनेश्वरस्य ॥१॥ कीर्तिः सितांशुसुभगा भुवि पोस्फुरीति,
यस्यानचं चरिकरीति मनो जनानाम् । .. आनन्दपूर्वविजयान्तगसूरिभर्तु___ स्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ युग्मम् ॥ मन्दोऽथ पुण्यविकलोऽकृतदर्शनोऽपि, ____ मादृक् कुतः प्रभवति स्तवने शताब्द्याम् । आजन्मदृष्टतपनो न कदाप्युलूको,
रूपं प्ररूपयति किं किल धर्मरश्मेः १ ॥३॥ सङ्ख्यातिगा गुणततिः सततं स्फुरन्ती,
ज्ञानेऽपि काव्य-धिषण-श्रुतदेवताभिः। . .. नो गीयते मुनिपतेः प्रचयीकृतोऽपि,
मीयेत केन जलधेननु रत्नराशिः १ ॥४॥
सताब्दि अंथ]
१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org