SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट अमरकाव्यमें भोजनार्थ निमंत्रित मानसिंहके अपमानका विवरण 'शते षोडशके त्रिशन्मितेन्दे गर्जरस्थिते । मानसिंहो मेदपाटे आयातः पुनरुद्भटः ।।२३।। अथैकदा प्रोद्धतमानसिंहं प्राघूर्णिकीभृतमभूतपूर्वम् । निमंत्रयामास सुग्रमंत्रः प्रतापसिंहः प्रचुरप्रतापः ॥२४॥ उदयसागरनामजलाशयप्रविलसत्तट उत्कटमानसः । रसवतीकरणाय तदादिशत् द्विज(ज)नानवनीशशिरोमणिः ॥२५॥ तदा नरैस्तत्र तु पाकशाला कृता प्रयुक्ता सकलैव शाला । मिष्ट: शुभान्नघृतपक्वयुक्तैर्लेह्यादिपेयादिक भोज्य सं....... ॥२६।। आकारितस्तत्र तु मानसिंहः समागतो भाग्यमिहेति जानन् । सुभोजनं राणमहीश्वरेण सहैकपंक्तौ मम भावि तस्मात् ।।२७।। मुदोपविष्टः सुविशिष्टशिष्ट : कुलीनराजन्यपवित्रपंक्तौ । महानसे वीरगणैः समेतः स मानसिंहो विरराज सिंहः ॥२८॥ प्रतापसिंहो बहुवस्तुसिद्धय, उच्चैः समुत्सार्य विशालचालं । बाह्वोः समाज्ञापयति स्वकीयसमस्तलोकेभ्यः उदारवीरः ॥२९॥ स्वर्णादिपात्रेषु समस्त वस्तुनि सूदैः परिवेषितानि । अपूर्वरूपानि च तानि दृष्ट्वा सुविस्मयं प्राप स मानसिंहः ॥३०॥ स मानसिंहो निजगाद वाक्यं प्रतापसिंह प्रति देव शीघ्र । आयाहि पंक्तौ शुभभोजनार्थमुच्चासने चोपविशत्वितीश ॥३१।। प्रतापसिंहस्तु तदीयवाक्यं चक्रे श्रुतं वाश्रुतवत्तदैव । पुनर्जगादाथ स मानसिंहस्तदेव वाक्यं महता स्वरेण ॥३२॥ राणेश्वरो मे जठरे स्मिष्टभार इत्यब्रवीत्कूर्म नरेशपुत्र । कुमारस्त्वायात्त्ववदत्तदेति प्रतापसिंहस्तु पुनर्बभाषे ॥३३॥ स वस्तुसिद्धि विदधाति धन्यां श्रुत्वाखिलं निर्मलमानसः सः । ज्ञात्वा तथैवेति च मानसिंहश्चकार सद्भोजनमादरेण ॥३४॥ वीरैः प्रवृद्धस्तु तदा तदीयः प्रतापसिंहाशयशौर्यविद्भिः । कृतो विचारो मनसा दृशा च मिथो न युक्तात्र भुजिक्रियेति ॥३५।। १. गते शते षोडश एकहीन त्रिंशद्गतेऽब्दे शुभ फाल्गुनेऽभूत् । विविध : ३३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012043
Book TitleAgarchand Nahta Abhinandan Granth Part 2
Original Sutra AuthorN/A
AuthorDashrath Sharma
PublisherAgarchand Nahta Abhinandan Granth Prakashan Samiti
Publication Year1977
Total Pages384
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy