________________
sorterfastesbsesastestedesesesesesesesesesesesedesesedeseshoeslesedesesededesesedesiclesesesesesesesentestedesesesesesesbobssb
[3
]
एकान्तरितोपवासकरणप्रवृत्तेन मुनिना गौतमसा गरेण साघुसमुदायाग्रणीः समागत एवं श्रुतम् । तेषां मिलनोत्कंटितः स मुनिदिडाग्रामे तेषाममिल त् सुखशातादिपृच्छां कृत्वा तेन मुनिना तस्य मुनिशस्य प्रोक्तम् -अहमेकाक्यस्मि तस्माद्युष्माभिः सह स्थातुमिच्छामि । मयि कृपां कृत्वाऽनुमतिप्र यच्छत । तन्निशम्य तेन मुर्न शेन प्रोक्तम् – एवं न भविष्यति । तन्निशम्य निराशः स मुनिरौतमसागरो लध्वाशंबीयाग्राम समागत्य तत्रत्यान्मुख्यश्रावकानेकत्रीकृत्य तेषां पार्श्वे तेन मुनोशेन साध या वार्ता जाता तां सर्वा कथयित्वा प्रोक्तम् - अहमेकाक्यस्मि तस्माद् अहं एकाकी कथं विहरामि ? तनिशम्य मुख्यश्रावकैः प्रोक्तम् – यद्यन्यगच्छीयाः स्वसमुदायेन सार्धं स्थातुमनुज्ञां न या छन्ति तर्हि यूयमेकाकी एव विहरत विशुद्धचारित्रपालने च सोद्यमा भवत । युष्माकं शिष्यपरवाने भविष्यति एकाकित्वं च गमिष्यति । शकुनानोव तेषां वचनानि मत्वा गौतमसागरो मुनिवर एकाकी विहरन् धर्मप्रचारं कर्तुं प्रवृत्तः । तेन धर्मप्रचारेण तस्य मुनेः शिष्यशिष्यापरिवारस्य प्रारंभो जातः।
श्रीगौतमसागरमुनिवरो मुंद्रानगरेऽध्ययनं कर्तुं गतः । तत्रैकान्तरोपवासान् करोति, अध्ययन च करोति । तदा तस्य मुनेर्गुणान् निशम्य कच्छभुजनगरस्य संघेन चातुर्मासस्य विज्ञप्तिः कृता । मुनिवरेण सा विज्ञप्तिः स्वीकृता । तत एकोनपंचाश्त्तमे संवत्सरे भुजनगरे चातुर्मासं कृत्वा संघस्य विज्ञप्त्याऽन्यत्र गत्वा पुनर्भुजनगरे स गौतमसागरमुनिः समागतः । तदा तस्य मुनेः पार्श्वे सुथरीग्रामस्य ओभाइयानामधर एकस्त्रिंशद्वर्षीयो दीक्षा श्रिावकश्चातुर्मासे समागत आसीत् । तस्य दीक्षाया मुहूर्त तस्मिन्नेकोनपंचा३.त्तमे संवत्सरे माघमास शुक्ल दशग्यामागतम् । तत एकरय मुनीइस्य पार्श्व गौतमसागरेण मुनिवरेण योगोद्वहनं कृत्वा बृहद्दीक्षा गृहीता। तस्य मुनीशस्य हस्तेन च दीक्षार्थिनः श्रावकस्य दीक्षा प्रदापिता । स नवदीक्षित उत्तमसागरनामधरः श्रीगौतमसागरस्य मुनिवरस्य शिष्यः संजातः ।। - ततः स्वशिष्येण गतैकावित्वः स गौतमसागरगुरु देवपुरग्रामे समागतः । तत्र तस्य गुरोरुपदेशेन प्रतिबुद्धा उमरबाई इतिनामघरा श्राविका दीक्षार्थिनी संजाता। ततः स गुरुवरश्चीयासरनामनि ग्रामे समागतः । तत्राऽपि तस्य गुरोरुपदेशेन तत्रत्यो गोवरभाईनामा श्रावकः प्रतिबुद्धो दीक्षार्थी संजातः । यदा गुरुणा विहारः कृतस्तदा स दीक्षार्थी श्रावको गुरुणा सहाचलद् अध्ययनं च कर्तु प्रवृत्तः । गुरु माद्ग्रामं विहग्न् उपदेशं च यच्छन् सुथरीग्रामे समागत्य श्रीघृतकल्लोलपार्श्वनाथतीर्थस्य यात्रां कृत्वा स्वजीवनं पावनममन्यत । ततो भुजनगराद् वर्षीतपःपारणामहोत्सवप्रसंगे समागंतव्यमिति संधस्य विज्ञप्तिः समागता । तां विज्ञप्ति स्वीकृत्य गुरुवर्यः तत्प्रसंगे भुजनगरे समागतः ।
આ આર્ય કલ્યાણગૌતમ સ્મૃતિગ્રંથ રહE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org