________________
[3८] ♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠.bb♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠bood
कारिणो गुरोरेव शिष्यः स्थास्यामि स्वगच्छं च न मुंचामि न मोक्ष्यामि इति सर्वेषां वदति स्म । देवसागर - स्वरूपसागरौ मम महोपकारिणौ स्तः । पालको, रक्षकौ, पोषकौ, प्राध्यापकौ सम्यक्त्वप्रापकौ तौ प्रगुरुगुरुवगै मया कथं स्यजनोयौ भवत इति वदन् स यतिवरो महाव्रतधारी भवितुमुत्कंठां धारयति ।
तेन यतिवरेण षट्चत्वारिंशत्तमे संवत्सरे बोदडाग्रामे चातुर्मासं कृतम् । ततस्तेन यतिवरेण शीघ्रं सर्वविरतिः स्वीकरेणीयेति निर्णयं कृत्वा यत्र तत्र साधूनां पार्श्व गत्वा स्वेच्छा प्रदर्शिता । परं तस्य स्वगच्छ - स्वगुरुनिर्णयं ज्ञात्वा केऽपि सर्वविरतिमार्गे तं न प्रवेशयन्ति ।
स यतिवरो भ्रमन् मरुभूम्यां पालीपुरीं समागतः तत्र तस्य जन्मभूम्यामेकेन साधुवरेण 'संसर्गेण पश्चादस्माकं शिष्यो भविष्यति' इति विचार्य स गौतमसागरयतिवरो विक्रमस्य षट्चत्वारिंशत्तमे संवत्सरे फाल्गुन शुक्लैकादश्यां पालीपुर्यां श्रीनवलखा पार्श्वनाथस्य द्विपंचाशजिनालये दीक्षा विधिपूर्वकं सर्ववित्यां प्रवेशितः । विधिपक्षगच्छापरनामाचलगच्छे श्रीस्वरूप सागरस्य शिष्यो नाम्ना गौतमसागर इति प्रघोषितः ।
अथ कृतक्रियोद्धारः स्वीकृत सर्वविरति चारित्रः स गौतमसागरो मुनिश्चारित्रं पालयन् तेन साधुना सह विहरन् गुर्जर देशे पाटणाभिधनगरे सप्तचत्वारिंशत्तमे संवत्सरे चातुर्मासमकरोत् । ततः स्तोकमनोभेदेन पृथक्कृतः स गौतमसागरो मुनिः सिद्धाचल महातीर्थयात्रां कृत्वा पश्चदेक एव विहरन् कच्छदेशं समागतः । तत्र कदाचिदन्यमुनिभिः सह कदाचिद् एकाकी च विहरन् लध्वाशंबीयास्थितस्य स्वगुरोर्मिनेच्छा तुं प्रवृत्तः । तन्निशम्य गुरुः स्वरूपसागरः स्वशिष्य मिलनार्थं बृहदारांबीया ग्रामं समागतः । द्वयोर्मिलनं संजातं तदाश्रूणि मुञ्चन् गुरुः शिष्येण गौतमसागरमुनिना प्रोक्तः - यूयं वृथा दुःखं मा धारयत, मया किमपि कलंक प्रदं कार्य कृतं नास्ति, युष्मभ्यं कीर्तिप्रदं कार्यं कृतमस्ति, युष्माकं गच्छे युष्माकं शिष्यत्वेनैव स्थितोऽस्मि स्थास्यामि च अस्मिन् विषये युष्माभिः शंका नैव कार्या | शिष्यस्य तद्वचनं श्रुत्वा गुरुः संतोषं प्राप्तः प्रसन्नश्च भूत्वा तस्मै शिष्यायाऽभिनन्दनं दत्त्वा विशिष्ट - चारित्र - पालनाय शिक्षामाशिषं च प्रददौ । ततो गुरोर्प्रसन्नतामाशिर्वादं च प्राप्य सानन्दो मुनि गौतम सागरोऽन्यत्र विहरन् भन्यान् प्रतिबोघयन्, विशुद्धं निर्दोषं संयमं पालयन्, कोडाय"जैनसंत्रस्य विज्ञप्तिं स्वीकृत्याष्टचत्वारिंशत्तमे संवत्सरे कोडायग्रामे चातुर्मासमकरोत् । ततो विहृत्याबडाशाप्रदेशे सुथ प्रामे समागत्य श्रीघृत कल्लोलपार्श्वनाथस्य यात्रां कृत्वा स मुनिः स्वं धन्यममन्यतः ।
હજી એ શ્રી આર્ય કયાા ગૌતન્ન સ્મૃતિ ગ્રંથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org