________________
साधना का महायात्री : श्री सुमन मुनि
महेन्द्रकुमार महाराजानां च समीपं सत्सङ्गलाभार्थं प्राप्ताः । तेषां प्रवचनं श्रोतुं धर्मसभां च प्रविष्टाः । एवं दिवसेषु चलत्सु साधुभ्य; वचनातिशयविशिष्टजिनानांवाणीः श्रावं श्रावं अत्यन्तं आनन्दं अभजन्त । स्वपन्नात्मा जागृतः । एते एव स्वस्य आत्मोद्धारकाः आत्मान्धकारनिवर्तकाः गुरवः इति निश्चिन्वन्तः तान् आचार्यान् वविरे ।
दुर्लभं त्रयमेवैतत् दैवानुग्रहकारकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः । । किल ? यदा एते गुरुवराणां समीपं गन्तुमना आसन् तदा ते सुल्तानपुर नामकं नगरं गतवन्तः । यदा सुल्तानपुर नगरं प्राप्ताः तदा ते शाहकोट नगरे आसन् । तान् अन्विष्यन् गच्छतां श्रीमतां मध्येमार्गं अध्यात्मं प्रवर्तमानैः दार्शनिकैः सह संपर्को जातः । एतादृशैः संपर्केः साधुवृत्तौ एतेषां अनुरागः उपचीयमान एवासीत् । अन्ततः शाहकोट नगरे गुरुवरैः कटाक्षिता एते । तदात्वे श्रीमतः महेन्द्रकुमारमहाराजान् स्वाध्यायमग्नान् विज्ञान् श्रीमतां युवाचार्यः शुक्लचन्द्र महाराजानां सविधे आत्मानं विज्ञापितवन्तः । यद्यपि शिष्यस्य भावः मनोरथश्च ज्ञातुंशक्यते तथापि सुपरीक्ष्यैव किल अध्यात्मवृत्तौ शिष्यः स्वीकार्यः । श्रीमतां आचार्यः आत्माराममहाराजानांअन्येषां च साधूनां विज्ञापिताः श्रीमन्तः । तैः बहुधा परीक्षिता अपि स्वनिश्चयात् न च्युताः ।
एवं श्रीमतां वैराग्यानुष्ठानस्य पल्लवः निश्चयस्य पूर्तिश्च क्रैस्तवीये १६५० तमे संवत्सरे दशमे मासि त्रयोदशे दिने सञ्जाता ।
मृत्योर्विभेषि किं मूढ ? भीतं मुञ्चति किं यमः ? अजातं नैव गृह्णाति कुरुयत्नमजन्मनि । ।
अपि च
आशायाः येः दासास्ते दासा जीवलोकस्य । आशा दासी येषां तेषां दासायते लोकः ।।
इति अजन्मनि यलं कर्तुं, आशां च दासीं विधातुं स्वीकृतसाधु
७२
Jain Education International
धर्माण: एते महान्तः । सुमनसां गन्ध इव सर्वत्र सर्वदा अध्यात्मसुमनोगन्धः एभिः प्रसारणीय इति कृत्वा सुमनकुमार इति दत्तदीक्षानामानः । वैराग्यसंपन्नानां तु कुतश्चित् भयं न भवति किल ?
अशीमहि वयं भिक्षां आशावासो वसीमहि । शीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ?
आं श्रीमन्तः अपि अन्यैः साधुभिः श्रावकैश्च निर्भीकवक्ता इति न वृथा स्तुताः । विरागिणां यः निर्भयत्वस्वभावः तदेतेषां स्वरूपभूतो वर्तते । एतेषां वैराग्यस्य फलं न केवलं स्वान्तः सुखाय परं जगद्धिताय च वर्तते । स्वीयैः प्रवचनैः सर्वान् अपि आकर्षयन्तः निस्त्रैगुण्ये पथि प्रवर्तयन्तः एते, “ इतिहासकेसरी, प्रवचनदिवाकर, शान्तिरक्षक, ” इत्यादि अन्वर्थैः बिरुदैः भूषिताः विराजन्ते । साहित्यविषयेऽपि एतेषां परिश्रमः योगदानं च अन्यादृशं दृश्यते । श्रीमद्रायचन्द्राणां आत्मसिद्धिशास्त्राख्यग्रन्थस्य सहस्रपृष्ठात्मक प्रवचनं एकं केवलं एतेषां पाण्डित्यं प्रवचनातिशयं जनाकर्षकत्वं इति सर्वान् अपि विशिष्टान् गुणान् प्रकटीकर्तुं अलम् । यद्यपि एते अन्येषां शुक्लज्योति शुक्लस्मृत्यादीनां अनेकानां ग्रन्थानां रचयितारः ।
एतेषां चातुर्मास्यानां पञ्चाशत्तमं भविता इति ज्ञात्वा मोमुद्यते मे मनः । दीक्षासमारोहस्य स्वर्णजयन्त्युत्सवसमितेः शताभिषेकोत्सवारचनभाग्यमपि भूयात् इति आशासे । आचार्याणां अनुग्रहश्च सर्वेषामपि आस्तिकजनानां एवमेव प्राप्नुयात् इति प्रार्थये ।
For Private & Personal Use Only
कृ. श्रीनिवासः
संस्कृतविभागाध्यापकः, विवेकानन्दकलाशाला, चेन्नई
**
www.jainelibrary.org