________________
न्यायदीपिकाके कर्ता अभिनव धर्मभूषण १५वीं शताब्दीके उद्भट विद्वान् थे । वे भट्टारकीय-परम्पराके साधु थे, जो अपने आपको यति लिखते थे। उनके पूर्व इसी नामके दो भट्टारक और हो गये थे, इसलिये उन्होंने अपने नामके पूर्व अभिनवशब्द जोड़कर अपना पथक अस्तित्व सिद्ध किया। न्यायदीपिका न्यायशास्त्रका महत्त्वपूर्ण ग्रन्थ है । न्यायशास्त्रके अध्ययन करने वालोंके लिये यह ग्रन्थ प्रवेशद्वारका कार्य करता है।
इस प्रकार डा० कोठियाने अपने विभिन्न लेखोंके आधारपर जैन दर्शनपर जो मौलिक चिन्तन प्रस्तुत किया है वह वर्तमान दर्शनशास्त्रके विद्याथियोंके लिए मार्गदर्शनका कार्य करता है। अपने जीवनको दार्शनिक चिन्तनमें समर्पण करके डा० कोठियाने दार्शनिक इतिहासकी कितनी ही नयी ग्रन्थियोंको सुलझाने में जो योग दिया है उसके लिए भावी पीढ़ी उनकी सदैव उपकृत रहेगी।
प्रमाण-परीक्षा समीक्षक-पं० रामनारायण त्रिपाठी, लखनऊ विश्वविद्यालय डॉ० दरबारीलालकोठियामहोदयेन सम्पादिता आचार्य-विद्यानन्दप्रणीता 'प्रमाण-परीक्षा' मयाऽवलोकिता। न्यायशास्त्रमर्मज्ञेन सम्पादकेन पुस्तकास्यास्य महती प्रस्तावनां प्रस्तुत्य समुपयोगित्वे महानुपकारो व्यधायि । प्रथमतस्तु तार्किकशिरोमणिनाऽचार्येण लघुकायेऽस्मिन ग्रन्थे निजसिद्धान्तापेक्षितान् सर्वान् न्यायनयान् निवेश्य स्वेतरसकलदार्शनिकमतानि साधु समीक्ष्य प्रमाणस्य लक्षणमङ्गानि च परीक्ष्य तत्संख्यां विषयं फलञ्च निर्णीय अन्वर्थमुखेन निरमायि । ग्रन्थोऽयं जैनप्रमाणशास्त्र सारल्येन प्रवेष्टुम भिलषतां छात्राणाम् अल्पीयसा श्रमेण विवसनप्रमाणतत्त्वबुभुत्सूनां दर्शनान्तरबुधानां सामान्यजिज्ञासूनां च कृतेऽतीवोपयुज्यते । 'प्रमेयसिद्धिः प्रमाणाद्धि' न्यायात् प्रमेयपदार्थानवगन्तुं प्रमाणशास्त्रस्यावश्यकता महत्ता च सर्वविदिते विनेदं तत्त्वज्ञानं सुदुर्लभम् ।
सम्पादनप्रक्रियाऽस्य महती समीचीना लिखित-मुद्रितविभिन्नपुस्तकैः पाठशुद्धि विधायावबोधनाय पादटिप्पण्या पाठभेदानप्युपन्यस्य विषयानुसारमनुच्छेदं झटिति विषयज्ञानाय कतिपयाक्षरद्वारा तत्तन्निर्दिष्टविषयान् संसूच्यादौ विषयसूची चोपस्थाप्य सर्वथोपकरोति ।
विंशत्युत्तरशतपृष्ठात्मिकायां सारगर्भितायां प्रस्तावनायाम् आदौ ग्रन्थ-तद्भाषा-शैली-प्रयोजन-विषयतद्विभागान् सम्यक् परिचाय्यानन्तरं महता श्रमेण प्राचीनानां जैनदार्शनिकानां कुन्दकुन्द-गृद्धपिच्छ-समन्तभद्रसिद्धसेन-पूज्यपाद-अकलङ्क-विद्यानन्द-माणिक्यनन्दि-देवसूरि-हेमचन्द्र-प्रभृतीनां प्रमाणविषयक मतं दर्शनान्तरमतोल्लेखपूर्वकं साधु विमृश्य विचिन्त्योपन्यस्तम् । येन प्रमाणज्ञानपाटवमातनोति विनयहृदयेषु सहजतयैषा प्रस्तावना । अनन्तरं सम्पूर्णस्य ग्रन्थस्यानुवादः सरलया सुगम्यया प्रौढ़या मातृभाषया सन्निहितः । सोऽपि पादटिप्पण्या समलङ्कृतः सूचीस्यूतश्च यो जिज्ञासूनां हिताधायकोऽनायासेनैव विषयान परिचाययति पाण्डि. त्यञ्च प्रोद्दीपयति प्रकुरुते सम्पादकज्ञानगौरवप्रकाशम् ।
आशासे प्रकरणस्यास्योपयुक्तसामग्रीसङ्कलितस्योपयोगिता समादरश्च बुधजनेषु द्राग भवितारौ नूतन रीत्या सम्पादितमिदं पुस्तकं सत्त्वरमेव प्रचारप्रसारत्वे लप्स्यते ।
-९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org