SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पुण्यात्मनां स्वर्गीय पण्डित-बेचरदास-महोदयानां पुण्य-स्मरणम् उपाध्याय अमरमुनि श्रीमद्-बेचरदासाख्यः, पण्डितो लोकविश्रुतः । वदान्यो विदुषां मान्यो, विबुद्धो द्युत-कल्मषः ॥ १ प्राकृतादिषु भाषासु, गतिस्तस्य निरर्गला । आगमेषु तु पाण्डित्यं, यशस्त्वं परितो गतम् ॥ २ प्राचीनागम-शास्त्राणां, कृतं सम्पादनं परम् । भगवत्यनुवादस्तु, विद्वच्चित्तानुरञ्जकः ॥ ३ क्रान्तिशील विचारे तु, तस्य ख्यातिरनुत्तमा । सत्य-प्रकटने लब्धा, नैकवा घोर-यातना ॥ ४ प्रतिभै तादृशी कुत्र, कदा संप्राप्यतेऽपरा । किं कृतं दुष्ट कालेन, सा हता क्षणमात्रतः ॥५ शोकाकुलं कुटुम्बं स्वं, प्रविहाय दिवौं गतः । केवल न कुटुम्बस्य, राष्ट्रस्याऽपि गुरु-क्षतिः ॥६ अद्भुतो ज्ञानदीपोऽयं, गतो निर्वाण भूमिकाम् । किन्त्वद्याऽपि प्रभासन्ते, प्रभास्तस्य तमोऽपहाः ॥ ७ पुत्र-पौत्रादयः सर्वे, शोकपर्याकुलेक्षणाः ।। स्मरन्ति तं विहायाऽस्मान्, कथं कुत्र गतः पितः ।। ८ । सुसुते सुप्रिया भार्याह्यजुवालीति विश्रुता । शोकार्ताः खलु सिञ्चन्ति, गलदःश्रुजलैर् भुवम् ॥ ९ पुण्यात्मन् त्वसदानन्द ! स्वर्गलोकेऽपि सौख्यभाक् । अतस्त्वदर्थ कः शोकः काऽपरा च व्यथा-कथा ॥ १० स्वर्गस्थाय निवेदनम् तत्र स्थितोऽपि नैजेषु, जनेषु करुणां कुरु । तथा स्वजीवन-यात्रायां, सन्तु सर्वे सुखान्विताः ॥ ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy