________________
श्रीरैवताचलचैत्यपरिपाटीस्तवनम् राजीमतीयुवतिमानसराजह सः
यादवप्रथितव शशिरोवतंसः । नेमिनिजाहिकमलैयं मल'चकार
श्रीरैवतं गिरिपतिं तमहं स्तवीमि ॥१॥ पार्श्वः स तेजलपुरकशिरः किरीटः ।
खङ्गारदुर्गतिलका वृषभादिदेवाः । पुष्णन्ति पुण्यममल यदुपत्यकायां
श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥२॥ अभ्र लिहा जिनगृहावलिरिन्दुशुभ्रा
शृङ्ग यदीय इह योजनयुग्मतुगे । पिण्डीकृतः सुकृतराशिरिष भाति
श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥३॥ सौवर्णदण्डकलसामलसारसारम्
श्रीनेमिमन्दिररमुदारमुद विधत्ते । यस्योपरि त्रिदशखेचरसुन्दरीणाम्
श्रीमानसौ विजयतां गिरिरुजयन्तः ॥४॥ यत्राङ्गिभिः कृतनुतिः प्रभुपादुकेयम्
सन्तक्ष्य पापपटल नखकीटिटकैः । पुण्यानि भालफलकेषु समुत्करोति
श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥५॥ लोकथलोकशुचिलोचनलोभनीये
नेमीश्वरे जिनवरे किल यत्र दृष्टे । चेतः प्रसीदति विषीदति दुःखराशिः
श्रीमानसौ विजयतां गिरिरुज्ज्यन्तः ॥६॥ प्राज्य' जरत्तृणमिव प्रविहाय राज्यम् ।
बन्धून् विधूय विधारानपि यत्र नेमिः । दीक्षां श्रितस्त्रिभुवनाभयदानदक्षाम्
श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥७॥ श्रीनेमिनो भगवतोऽजनि यत्र लोकाs
लोकावलोकनकलाकलितस्वभावम् । ज्योतिर्जगज्जनवनीनवनीरदाभम्
श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org