________________
प्रथम खण्ड: श्रद्धार्चन
१२७.
--
.-
..-
.
-
-
-
-
-
-
-........
.
..........
.................
...
-
-
-.-.-.-.-..
ज्ञानदीपकदीप्तिमत्प्रतिभाति यस्य मनोगतम्, लक्ष्यमद्भुतमेव तन्मनुते जनः सुजनोऽपि सन् ।
अस्य हेतुरयं भवेन्न हि विद्यते यदपेक्षितम्,
___ ज्ञानमन्यदिवास्ति सन्ततमेव यस्य न निश्चयः ।।८।। एवमेव हि विद्यते सकलं सदा जनमण्डलम्, तत्त्वमस्ति न निश्चितं पुनरेति धर्मपथश्च्युतः । पुष्करो मुनिराज एष तु मार्गमेव जिनस्य शम्,
बोधयन्नतिदूरमेति न शोचति भ्रमणान्तरम् ।।६।। स्पर्शरत्नसमो विभाति सुचेतसां विदुषां मते, पुष्करो मुनिराज एष तु शोभते पृथिवीतले। यं जनं स्पृशति स्वयं मुनिरूपधृत् पुरुषोत्तमः,
जायते न हि संशयोऽस्ति परीक्षतां यदि संशयः ।।१०।। यः स्वयं वचनैः सुधोपमशीतलैः शमयत्यसो, जैनसंसतिसंस्कृतं जनमण्डलं गतिसङ्गतम् । तत्सम परपक्षसंस्कृतिभूषितं नरसङ्गमम्,
व्युद्धरन्मुनिराजपुष्कर एव सम्प्रति पुष्करः ॥११॥ मन्मते जगतीतले मुनयोऽपि सन्ति सदुत्तमाः, किन्तु तेन हि सङ्गता अनुयान्ति साधुसमन्वयम् । श्रेष्ठसंस्कृतिशुद्धकृत्यमुपासितं समुपाचरन्,
पुष्करो मुनिराज एव तु सङ्गतः प्रतिभात्ययम् ॥१२॥ कारणानि पुरश्शतानि भवन्ति सम्प्रति सङ्गमे, श्वेतवस्त्रधृतस्य तस्य मुनेः सतां जिनसंस्कृतेः । पुष्करस्य यशोधरस्य विचार एष तु सङ्गतः,
सङ्कमेव सतामुपैमि सदेति मङ्गलकारणम् ।।१३।। सद्गुणैरखिलै रमीभिरयं महोज्ज्वलरत्नवत्, पुष्करो मुनिराजराजिषु शोभते शशिना समः । केऽपि तं मुनिनायकं कथयन्ति नूतनगौतमम्,
अन्य एव जनाः समे प्रथयन्ति तं वचसांपतिम् ।।१४।। यः पुरा पुनरेकदा विजनाद् वनाद् विहरन्नसो, मार्गदैर्ध्यमवेक्ष्य तस्य वनस्य शिष्यसमन्वितः । अन्तिके च कृताश्रयो मुनिराज एव जपन् प्रभुम्,
वर्तते स्म तदागमद्धरिरिच्छयव ततोऽगमत् ॥१५।। निर्भयोऽपि दयालुरस्ति दृढव्रतोऽपि च कोमल:, स्वेच्छया सरलोऽपि सन्नयमस्ति भूधरवद् वृढः । दूढच एव सुखे वसन्नपि शान्ति मानपि दुर्धरः,
पुष्करो मुनिराज एष कलौ युगेऽपि च निष्कलिः॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org