________________
१०६
स्वर्गस्थपूज्यपंडितप्रवरश्रीछबीलदास भ्रातुः आत्मा भवान्तरेऽपि जिनशासनं प्राप्य ज्ञान - साधनाबलेन स्व-परकल्याणभाग् भवेत्, इति शुभकामना मम अस्ति ।
श्रीमद्गूर्जरप्रान्ते भाभरनगरवास्तव्यजेकोरबाईकेशरी चंदगृहे १९७५ तमे विक्रम संवत्सरे पौष शुक्लत्रयोदश्यां भगवतो महावीरप्रसादात्पुत्रजन्म अभूत् । छबीलदासो नाम्ना प्रसिद्धीभूत: ।
पितृसन्निधौ भाभरमध्ये बाल्यकालं व्ययीकृत्य महेशानास्थित श्रीमद्यशोविजयजैन संस्कृत पाठशालायां नववर्षपर्य्यन्तं दत्तचित्तेन गुरुसेवां कुर्वन् नानाविधशास्त्राणि अभ्यस्य तत्रैव तानि शास्त्राणि अध्याप्य स्तंभनपुरे एकस्मिन्स्थाने पञ्चाशत्वर्षपर्यन्तमध्यापनं कृत्वा तत्संघे उच्चस्थानं प्राप्तवान् । अध्यापनकलायां एतेषां प्रवीणता अवर्णनीयासीत् । गूढपदानामपि अर्थानां सरलभाषायां पाठनमिति अस्यैव विलक्षणता । एतदतिरिक्ता अन्येऽपि केचन गुणविभूषिता आसन् (१) संघहितचिंतक (२) सत्यवक्ता, (३) कर्मभीरुता, (४) परोपकारपरायणता, (५) निर्भयता, (६) सहनशीलता, (७) निःस्पृहता, (८) श्रुतज्ञानविनियोगता, (९) कृतज्ञता, (१०) सात्त्विकता, (११) गांभीर्यतादि गुणैः सुवासिताः ।
कामना ।
| श्रद्धांजलिः ।
॥ ज्ञानस्य फलं विरतिः ॥ ॥ सा विद्या या विमुक्तये ॥
जैनशासनमस्यज्ञानदानेन सेवितं । आगन्तुकानाम् अध्ययनाध्यापनस्यैव प्रेरणां कृतवान् । एतादृशो महामानवो विक्रमसंवत २०५८ तमे वर्षे स्वकीय भावनानुसारेणैव अध्यापयन् श्रावण शुक्ल त्रयोदश्यां पञ्चत्वं गतः । जैनशासने अस्य महानुभावस्य क्षतिः कथमपि न पूर्णीभविता ।
सद्गतस्यात्मा भवान्तरेऽपि जिनशासनं प्राप्य स्व- परात्मकल्याणे लीनो भवेदिरिति मदीया
॥ मंगलकामना ||
Jain Education International
अहमदावाद मध्ये
संवत २०५९ वर्षे अषाढमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथ्यां लिखितम् ।
જ્ઞાન પુષ્પાંજલિ
तेषाम् गुणा : मयि प्रादुर्भूयासुः । यद्गुणकीर्तनं किमपि फलवदस्ति तर्हि सर्वे जीवाः कृत्स्नकर्मक्षयाः भवन्तु ।
- भवदीयचरणचञ्चरीकः जशवंतलालसुतः परेशः ।
For Private & Personal Use Only
www.jainelibrary.org