________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો ઃ ૩૨૫ उत्कर्षोऽयमथापकर्षविषयः सद्भयो न शङ्कामहे
ये चाऽरोचकिनः सदा कृतधियस्तेभ्यस्तु बद्धोऽञ्जलिः। एतस्यानुगुणोपमानरसिका दाने दमे पौरुषे
के कुर्मो मतिरन्यमेति न समुत्कम्पाऽपि चम्पाधिपे ॥११॥ अन्ये वाचि परे क्रियासु सचिवाः सन्त्येव राजाङ्गणे
शङ्के यैरनुशीलितं गुरुकुलं मा साहसाः पक्षिणः । आशाराजसुतस्तु स स्तुतिपदं श्रीवस्तुपालः सता
मेकः कर्मणि वाचि चेतसि समुजागर्ति यः कार्यिषु ।। १२ ॥ पालने राजलक्ष्मीणां लालने च मनीषिणाम् । अस्तु श्रीवस्तुपालस्य निरालस्यरतिर्मतिः ॥१३॥ एतानि पण्डितआमभ्रातृपण्डितदोदरस्य ।। छ ।
प्रशस्तिलेखाङ्क-८ स्वस्ति श्रीभूमिसीमाविपिनपरिसरात् क्षीरनीराब्धिनाथ[:]
पृथ्व्यां श्रीवस्तुपालं क्षितिधवसचिवं बोधयत्यादरेण । अस्यामास्माकपुत्र्यां कुपुरुषजनितः कोऽपि चापल्यदोषो निःशेषः सैष लोकम्पृ[ण]गुण ! भवता मूलतो मार्जनीयः ॥१॥
-पं० जगसीहस्य ॥
प्रशस्तिलेखाङ्क-९ कलिकवलनजाग्रत्पाणिखेलत्प्रतापद्युतिलहरिनिपीतप्रत्यनीकप्रतापः। जयति समरतत्त्वारम्भनिर्दम्भकेलिप्रमुदितजयलक्ष्मीकामुको वस्तुपालः ॥१॥ त्वं जानीहि मयाऽस्ति चेतसि धृतः सर्वोपकारबती, किनामा ? सविता, न, शीतकिरणो. न. स्वर्गिवृक्षो. न हि । पर्जन्यो, न हि, चन्दनो, न हि, ननु श्रीवस्तुपालः, त्वया ज्ञातं सम्प्रति, शैलपुत्रि-शिवयोरित्युक्तयः पातु वः ॥२॥ सारस्वताऽम्भोनिधिपार्वणेन्दुः श्रीवस्तुपाल: सचिवाधिराजः। चिरं जयत्वेष सहाऽनुजन्मा सपुत्रपौत्रः सपरिच्छदश्च ॥ ३ ॥ भृगुकच्छीय ध्रुव ठ० वीकलसुत ठ० वैरसिंहस्यैते ॥ छ । शुभं भवतु श्रीसङ्घस्य इति ।। छ ।। भद्रम् ॥ छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org