________________
390
પરિણામ અને વિવર્ત
ब्रह्मविद्याभरणन॥ sil श्रीमत् भइतान-हे सारी या री छ. प्रत પ્રશ્ન ઉપર એ સારું અજવાળું નાખી શકે એમ છે –
विकारः परिणामः अन्यथाभाव इत्यनर्थान्तरम् । ब्रह्म च 'अस्थूलमनण्वि'त्यादिश्रुतिवाक्यैः 'कूटस्थाचलं ध्रुव' मित्यादि स्मृतिवचनैश्च सर्वविकारवर्जितमवगम्यते । अतः कथं परिणामादित्युच्यते । केचिदाहुः-सृष्टिवाक्यपर्यालोचनया आत्मन उपादानत्वमवगम्यते। उपादानत्वं चापृथक्सिया विकाराश्रयत्वम् । निर्विकारत्वं च श्रुतिष्वाम्नायते । अत उभयविरोधपरिहाराय सृष्टिवाक्येष्वात्मादिपदानां मायाव्यक्ताजादिपदैः प्रतिपादिता या दैवी शक्तिः तद्विशिष्टेश्वरपरत्वमुपेयते । तथा च विकारित्वाख्यमुपादानत्वमव्यक्तरूपविशेषणांश एव पर्यनस्यति। विशेष्यभूतस्यास्मनो निर्विकारत्वप्रतिपादनेन तदंशे बाधादिति । तैस्तु पाचोयुक्यन्तरेण सेश्वरसायपक्ष एव व्यवस्थापितो भवति । प्रकृत्यंशस्यैवौपादानत्वोपगमात् । अपि च सृष्टयादिवाक्येष्वात्मब्रह्मादि-, पदानां प्रकृत्या विशिष्टलक्षणापि न न्याय्या। कथं च 'सत्यं ज्ञानमनन्तं ब्रहो ति विशुद्धात्मानं प्रस्तुत्याम्नाते तस्माद्वा एतस्मादात्मनः आकाशः सम्भूत' इत्यादौ प्रकृतिविशिष्टात्मलक्षणा लक्षितेऽपि विशिष्टात्मनि पञ्चम्यर्थस्योपादानत्वस्य विशेष्यांशे स्वरसतोऽन्वितस्य विशेषणांशपर्यवसानकल्पनमपि न स्वरसम् । तस्मान्नेयकल्पना श्रुतिस्वारस्यानुरोधिनी । अन्ये तु यथा प्रकृतेरुपादानत्वम्, एवमात्मनोऽप्युपादानत्वम् । उभयोपादानत्वस्य श्रुतिसिद्धत्वात् । परंतु आत्मनो विकाराश्रयत्वं परम्परया, प्रकृतिः साक्षादेव चिकारिणी। आत्मा तु विक्रियमाणप्रकृत्याश्रयतया विकारी। तथा च श्रुतिः'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरमिति । न च तथा सति परमात्मन उपादानत्वं न स्यादिति वाच्यम् । नह्यपृथक्सिया विकाराश्रयत्वम उपादानत्वमित्यत्र साक्षात्सम्बन्धेन विकाराश्रयत्वं विवक्षितम् येन परम्परया विकाराश्रयस्योपादानत्वं न स्यात् । गौरवेण साक्षात्वस्यानिवेशातानिर्विकारत्वशतिस्तु साक्षाद्विकारित्वं निषेधति । अतो नोभयवचनविरोध इति । एवं हि 'आत्मन आकाशः सम्भूत' इत्यादि वचनानां स्वारस्य परित्यक्तमेव स्यात् । उत्सर्गतः साक्षात् सम्बन्ध एव हि तत्र प्रतीयते । न चौत्सगिकस्य तस्य 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरमिति वचनानु