________________
१३
निरयावलिका सूत्रका सम्मतिपत्र आगमवाराधि-सर्वत्रन्त्रस्वतन्त्र - जैनाचार्य पूज्यश्री आत्मारामजी महाराजकी तरफका आया हुवा सम्मतिपत्र
लुधियाना ता. ११ नवम्बर ४८
श्रीयुत गुलाबन्दजी पानाचंदजी ! सादर जयजिनेन्द्र ||
पत्र आपका मिला, निरयावलिका विषय पूज्यश्रीका स्वास्थ्य ठीक न होने से उनके शिष्य पं. श्री हेमचन्द्रजी महाराजने सम्मतिपत्र लिख दिया है, आपको भेज रहे हैं, कृपया एक कोपी निरयावलिका की और भेज दीजिये, और कोई योग्य सेवा कार्य लिखते रहें ।! भवदीय. गूजरमल - बलवंतराय जैन
॥ सम्मति ॥
( लेखक जैनमुनि पण्डित श्री हेमचंद्रजी महाराज ) सुन्दरबोधिनीटीकया समलङ्कृतं हिन्दी - गुर्जर - भाषानुवादसहितं च श्रीनिरयावलिकासूत्रं मेधाविना मल्पमेधसां चोपकारकं भविष्यतीति सुदृढं मेऽभिमतम्, संस्कृतटीकेयं सरला सुबोधा सुललिता चात एव अन्वर्थनाम्नी चाप्यस्ति । सुविशदत्वात् सुगमत्वात् प्रत्येकदुर्बोधपदव्याख्यायुतत्वाच टीकैषा संकृत साधारण ज्ञानवतामप्युपयोगिनी भाविनीत्यभिप्रेमि । हिन्दी - गुर्जर भाषानुवादावपि एतद्भाषाविज्ञानां महीयसे लाभाय भवेतामिति सम्यक् संभावयामि ।
जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालजी - महाराजानां परिश्रमोऽयं प्रशंसनीयो, धन्यवादार्हाच ते मुनिसत्तमाः । एवमेव श्रीसमीरमलजी - श्रीकन्हैलालजी - मुनिवरेण्ययोर्नियोजनकार्यमपि श्लाध्यं, तावपि च मुनिवरौ धन्यवादाह स्तः ।
सुन्दर प्रस्तावनाविषयानुक्रमादिना समलङ्कृते सूत्ररत्नेऽस्मिन् यदि शब्दकोषोऽपि दत्तः स्यात्तर्हि वरतरं स्यात् । यतोऽस्यावश्यकतां सर्वेऽप्यन्वेषकविद्वांसोऽनुभवन्ति ।
पाठकाः सूत्रस्याध्ययनाध्यापनेन लेखकनियोजक महोदयानां परिश्रमं सफलयिष्यन्तीत्याशास्महे । इति ।