________________
૩૬૮
નમસ્કારમંત્રસિદ્ધિ चौरी मित्रमहिर्माला, वह्निर्वारिजलं स्थलम् । कान्तारं नगरं सिंहः, शृगालो यद् प्रभावतः ॥६॥ अहो पञ्चनमस्कारः, कोऽप्युदारोऽजगत्सु यः। सम्पदोऽष्टौ स्वयं धत्ते, यत्तेऽनन्तास्तु ताः सताम् ।।७।। मन्त्रं संसारसारं त्रिजगदनुपम सर्वपापारिमन्त्रं, संसारोच्छेदमन्त्रं विषमविषहरं कर्मनिर्मूलमन्त्रम् । तन्त्र सिद्धिप्रधानं शिवमुखजननं केवलज्ञानमन्त्रम् , मन्त्रं श्रीजैनमन्त्र जपजपजपितं जन्मनिर्वाणमन्त्रम् ॥८॥ अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्री सिद्धान्तमुपाठका मुनिवरा रत्नत्रयाराधकाः, पश्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ।।९।। अर्हन्तो ज्ञानभाजः सुरवस्महिताः सिद्धिसिद्धाश्च सिद्धाः, पश्चाचारप्रवीणाः प्रवरगुणधराः पाठकाश्चागमानाम् । लोके लोकेशवंद्याः प्रवरयतिवराः साधुधर्माभिलीनाः, पश्चाप्येते सदा नः विदधतु कुशलं विघ्ननाशं विधाय ॥१०॥