________________
प्रमाणनयतत्वालोकसूत्राणि ५७. प्रतिषेधोऽसदंशः । ५६ ५८. स चतुर्द्धा प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽन्यन्ताभावश्च । ५७ ५९. यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः । ५७ ६०. यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः । ५८ : ६१. यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः । ५८ . . .: ६२. यथा कपालकदम्बकोत्पत्ती नियमतो विपद्यमानत्य कलशस्य कपालकदम्ब.
कम् । ५८ ६३. स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः । ५८ ६४. यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः । ५९ ६५. कालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः । ५९ ६६, यथा चेतनाऽचेतनयोः। ५९ ६७. उपलब्धेरपि दैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्च । ६० ६८. तत्राविरुद्धोपलब्धिर्विघिसिद्धौ पोढा । ६० ६९. साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिः । ६० ७०. तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्रयनुमित्या . रूपाद्यनुमिति
मभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तरप्रतिस्खलनम पर
कारण साकल्यं च । ६१ ७१. पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ, तयोः कालव्यवहितावनुपलम्भात् ।
७२. न चातिक्रान्तानागतयोर्जाग्रदशासंवेदन-मरणयोः प्रबोधोत्पातौ प्रति कारणत्वं
व्यवहितत्वेन निर्व्यापारत्वात् । ६४ ७३. स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था, कुलालस्येव
कलशं प्रति । ६५ ७४. न च व्यवहितयोस्तयोर्व्यापारपरिकल्पन न्याय्यमतिप्रसक्तेः । ६६ . . ७५. परम्पराव्यवहिताना. परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् । ६६. . ७६, सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेन तदुत्पत्ति
विपत्तेश्च सहचरहेतोरपि प्रोक्तेपु नानुप्रवेशः । ६८ ७७. ध्वनिः परिणतिमान् , प्रयत्नानन्तरीयकत्वात् , यः प्रयत्नानन्तरीयकः स परि
णतिमान् , यथा स्तम्भः, यो वा न परिणतिमान् स न प्रयत्नानन्तरीयकः, यथा