________________
प्रमाण . तत्त्वालोकसूत्राणि १५. शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् । ४१ . १६. प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतंग्रहणम् । ४१ १७. अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम् । ४१ १८. व्याप्तिग्रहणसमयाऽपेक्षया साध्यं धर्म एवान्यथा तदनुपपत्तेः । ४१ १९. न हि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिरस्ति । ४२ २०. आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पंक्षाऽपरपर्यायस्तंद्विशिष्टः प्रसिद्धो धर्मी।
४२ २१. धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः, कुत्रचित् प्रमाणतः, क्वापि-विकल्पप्रमाणाभ्याम् ।
४२ २२. यथा समस्ति समस्तवस्तुवेदी, क्षितिघरकन्धरेय धूमध्वजवती, ध्वनिः परिणति
मान् । ४२ २३. पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् । ४४ २४. साध्यस्य प्रतिनियतधर्मिसम्बन्धिताप्रसिद्धये, हेतोरुपसंहारवचनवत्, पक्षप्रयोगो
ऽप्यवृश्यमाश्रयितव्यः । २५. त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः खलुनः पक्षप्रयोगमङ्गी
कुरुतेः । ४६ २६. प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थं प्रत्यक्षम् , परप्रत्यक्षहेतुत्वात् । ४७ २७. यथा पश्य पुरः स्फुरस्किरणमणिखण्डमण्डिताभरणभारिणी जिनपतिप्रतिमाम् । ४८ २८. पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् । ४८ २९. हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः । ४९ ३०. सत्येव साध्ये हेतोरुपपत्तिस्तथोपपतिः, असति साध्ये हेतोरनुपपंत्तिरेवान्यथानु
पपत्तिः । ४९ ३१. यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे, धूमवत्वस्योपपत्तेः असत्य
नुपपत्तेर्वा । ४९ ३२. अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ, द्वितीयप्रयोगस्यैकत्रानुपयोगः ।। ५०. ३३. न दृष्टान्तवचनं पर प्रतिपत्तये प्रभवति, तस्यां पक्षहेतुवचनयोरेव व्यापारोप
लव्धेः । ५० ३४. न च हेतोरन्यथानुपपत्तिनिर्णीतये, यथोक्ततर्कप्रमाणादेव; तदुप्रपत्तेः । ५१ ।।