________________
७. ५६] ... चार्वाकाभिमतादृष्टाभावनिरासः ।
(६०) अथ यथैकप्रदेशसम्भवानामित्यादि परः। परेपामिति जनानाम् । तद्: दृष्टान्तावष्टम्भस्येति भवत्कृतस्य ।
- (टि०) कण्टकपङ्कजादीनामित्यादि । परेपामिति जैनानाम् । तदृष्टान्तेति कण्टकपङ्कजादिदृष्टान्ताश्रयणस्य । तैरिति अर्हदागमावगमनिपुणेः । . . . अथ गगनपरिसरे मकरकरितुरङ्गकुरङ्गभृङ्गराङ्गाराधाकराननेकप्रकारान् बिभ्रत्यभ्राणि, न च तान्यपि चेतनानि वः संमतानि तद्वत् तनुभाजोऽपि राजरङ्कादयः सन्त्विति चेत् । तदसत्, तेषामपि जगददृष्टवशादेव देवपदवीपरिसरे विचरतां विचि- .. त्राकारस्वीकारात् ।
નાસ્તિક–આકાશમાં વાદળાંઓ પણ મકર, હાથી, ઘેડા, હરણ, ભંગાર વગેરે અનેક પ્રકારના આકારોને ધારણ કરે છે, અને છતાં પણ તે વાદળાઓને તમે જેનેએ ચેતન તરીકે માન્ય કરેલ નથી, એટલે વાદળાંઓની જેમ જીવે પણ રાજા, રંક, વગેરે વિશેષતાઓવાળા માનવા જોઈએ, પરંતુ એમાં અદષ્ટને કારણ માનવાની કંઈ આવશ્યક્તા નથી. " જેન–તે કથન પણ સત્ય નથી, કારણ કે આકાશમાં ભમતાં વાદળાંઓ
તેવા વિચિત્ર આકારને જગતના અદષ્ટને કારણે ધારણ કરે છે. . .. .. (६०) अथ गगनपरिसरे इत्यादि परः। चेतनानि वः सम्मतानीति वः जैनानाम् । . तदसदित्यादि सूरिः । देवपदवीपरिसरे इति गगनपरिसरे ।
. (टि.) तद्वदिति मकराद्याकाराभ्रवत् । तेपामपीति अभ्राणामपि । देवपदवीति गगन
परिसरे । अभ्रं सुराभोडमरुत्पथोऽम्बरमितिवचनादयनं पदवी मार्ग इति स्मरणाच्च । देवपदवी... शब्देन गगनमुच्यते । -
. . कश्चायं स्वभावो यद्वशाज्जगद्वैचित्र्यमुच्यते ? । किं निर्हेतुकत्वम्, स्वात्महेतुकत्वम्, वस्तुधर्मः; वस्तुविशेषो वा । आधे पक्षे सदा सत्त्वस्य, असत्त्वस्य वा प्रसङ्गः । द्वितीये आत्माश्रयत्वं दोषः, अविद्यमानो हि भावात्मा कथं हेतुः स्यात् ?, विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात् ? । वस्तुधर्मोऽपि दृश्यः कश्चित्, .. अदृश्यो वा । दृश्यस्तावदनुपलम्भबाधितः । अदृश्यस्तु कथं सत्त्वेन वक्तुं शक्यः ? ।
अनुमानात् तु तन्निर्णयेऽदृष्टानुमानमेव श्रेयः । वस्तुविशेषश्चेत् स्वभावो भूतातिरिक्तो भूतस्वरूपो वा.। प्रथमे मूर्तोऽमूर्तो वा । मूर्तोऽपि दृश्योऽदृश्यो वा । दृश्यस्तावद् दृश्यानुपलम्भवाधितः । अदृश्यस्त्वदृष्टमेव स्वभावभाषया बभाषे । अमूर्तः पुनः परः । परलोकिनः को नामाऽस्तु ? | न चादृष्टविघटिस्य तस्य परलोकस्वीकारः इत्यतोऽप्यदृष्टं स्पष्टं निष्टङ्क्यते । भूतस्वरूपस्तु स्वभावो नरेन्द्रदरिद्रतादिवसदृश्यभाजोर्यमलजातयोरुत्पादकस्तुल्य एव विलोक्यते, इति कौतस्कुतस्तयोविशेषः स्यात् ? तदर्शनात् ।