________________
अर्हम्। अथ चतुर्थः परिच्छेदः।
संप्रति परोक्षस्य पञ्चमप्रकारमागमाख्यं बहुवक्तव्यत्वात् परिच्छेदान्तरेणोपदिशन्ति
आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥ ६१ आप्तः प्रतिपादयिष्यमाणस्वरूपः, तद्वचनाज्जातमर्थज्ञानमागमः । आगम्यन्ते मर्यादयाऽवबुध्यन्तेऽर्था अनेनेत्यागमः ॥१॥
પક્ષપ્રમાણુના આગમ નામના પાંચમા ભેદમાં વિશેષ કહેવાનું હોવાથી ગ્રંથકાર તેનું જુદા પરિછેદમાં વર્ણન કરે છે–
આપ્તપુરુષના વચનથી ઉત્પન્ન થયેલું અર્થજ્ઞાન આગમ છે. ૧.
હર જેના સ્વરૂપનું પ્રતિપાદન કરાશે તેવા આસપુરુષના વચનથી ઉત્પન્ન થયેલું અર્થ જ્ઞાન તે આગમ પ્રમાણ છે. મર્યાદાપૂર્વક જેના વડે પદાર્થ જણાય ते मागभ छ. १.
(५०) ।। ॐ नमः।। चतुर्थपरिछेदे प्रतिपादयिष्यमाणस्वरूप इति । अभिधेय वस्तु यथावस्थित यो जानीते यथाज्ञातं चाभिधत्ते स आप्तः ॥१॥
. ननु यद्यर्थसंवेदनमागमः, तर्हि कथमाप्तवचनात्मकोऽसौ सिद्धान्तविदां प्रसिद्ध इत्याशङ्कयाऽऽहु:
उपचारादाप्तवचनं च ॥२॥ ६१ प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति कारणे कार्योपचारात् तदप्यागम इत्युच्यते, अनन्योपायताख्यापनार्थम् ।
६२ अत्रैवं वदन्ति काणादाः-शब्दोऽनुमानम् , व्याप्तिग्रहणबलेनार्थप्रतिपादकत्वाद्, धूमवत्, इति । तत्र हेतोरामुखे कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षेण 'व्यभिचारः, तथाभूतस्यापि तत्प्रत्यक्षस्यानुमानरूपताऽपायात् । आः! कथं प्रत्यक्षं नाम भूत्वा व्याप्तिग्रहणपुरस्सरं पदार्थ परिच्छिन्द्यात् ? उन्मीलितं हि चेल्लोचनम्, जातमेव परीक्षकाणां कूटाकूटविवेकेन प्रत्यक्षमिति क्व व्याप्तिग्रहणावसर इति चेत् । एतदेवान्यत्रापि प्रतीहि । तथाहि-समुच्चारितश्चेद् ध्वनिः; जातमेव जनस्य शब्दार्थसंवेदनमिति क्व व्याप्तिग्रहणावसर इति ? एवं तर्हि नालिकेरद्वीपवासिनोऽपि पनस