________________
४०
साध्यस्वरूपम् ।
[३. १४श-विपक्षमा निश्चयपू मला छ मेम उवामाथी अबाधितविपयत्व अने. असत्प्रतिपक्षत्व, मने मे ज्ञा५४ सय छे. २मा पातथी ज्ञातत्व प्राप्त થઈ ગયેલ જ છે.
સમાધાન–જે એમ હોય તે-હેતુ ગમક છે, એટલું કહેવાથી તમારા કહેલાં સઘળાં લક્ષણ પણ પ્રાપ્ત થઈ જાય છે જ, તે ફરીથી એ લક્ષણો કહેવાની શી આવશ્યકતા છે ? અર્થાત કંઈ આવશ્યકતા નથી. ૧૩,
(प०) यस्त्विति भवत्पक्षीयः। पक्षमेवेति तस्यापि ह्येतदेव लक्षणम्। आचक्षीतेत्यस्मात् पुरः 'कथयति चेत्थम्' इति गम्यम् । न च विरोध इति को भावः ? साध्यधर्मवत्तया सपक्षत्वं साध्यत्वेनेष्टतया पक्षत्वम् । वास्तवस्येति सहजसिद्धस्य । वास्तवत्वं च साध्यधर्मवत्तया । इच्छाव्यवस्थितेनेति साधयितुमिष्टतया। अशक्यत्वादित्यस्य पुरः 'प्रवदति' इत्युचितत्वाद् गम्यम्। स महात्मेति उपहासवचनम् । सत्वादेरिति पुरः 'कथम्' इति गम्यम् । साध्यधर्मस्येति क्षणिकत्वस्य । अवबोधेनेति पक्षसपक्षयोरक्यात् सपक्षे यदा साध्यधर्मावबोधो जातस्तदा पक्षेऽपि । अनुमानानर्थक्यादिति सपक्षे सत्त्वं निश्चित्यैव हि हेतुः प्रयोज्यः । अत्र च पक्षसपक्षयोरैक्यं त्वया कृतम् । ततः सपक्षसत्त्वनिश्चये एव साध्यधर्मनिश्चयान्निरर्थकमनुमानमित्यर्थः । एतदेव स्पष्टयति-पक्षो हीत्यादिना। तोरिति सत्त्वात् ।
___ एवमिति अनया रीत्या । अनेनेति पूर्वोक्तवादिना । सपक्ष लक्षयतेति पक्ष एवेति ज्ञेयम् । दिग्नागस्येति न्यायप्रवेशकसूत्रकर्तुः । तत्तुल्ये इति सपक्षे। असतीति विपक्षे ।
तत्त्वमेतदेवेत्यादिना योगसौगतोक्तिः। ज्ञातत्वं चेति प्रतीतत्वं च। ज्ञापकहेत्वधिकारादिति कारकहेतुस्तु प्रमाणे नोपयुज्यते ॥१३॥
(टि.) यस्त्विति अर्चटश्चर्चचतुरः । विरोध इति पक्षसपक्षयोः । वास्तवस्येति मुख्यस्य । साध्यधर्मस्येति 'पक्ष एव सपक्षः' इत्यङ्गीक्रियमाणे क्षणिकत्वस्य पूर्वमेव सिद्धत्वादन्यथा सपक्ष एव न स्यात् । अतो वैयर्थ्य प्रागपि पक्षसपक्षसिद्धेः । पक्षो हीति पक्ष एव सपक्षो निश्चितो यदि तत्र पक्षे सत्त्वं च हेतोनिर्णीतम् ।
एवमिति साध्यधर्मवान् सपक्ष इति प्रकारेण ।। __ अनेनेति दुर्घटार्चटमतानुयायिना धीमतान्तेवासिना। साध्यधर्मेति अनित्यत्वादिना। दिग्नागस्येति न्यायप्रवेशकसूत्रकारस्य । अनुमेये इति पक्षे । तत्तुल्ये इति पक्षसमाने सपक्षे इत्यर्थः । सद्भाव इति हेतोरिति शेषः । ननु साध्यधर्मवान् सपक्षः । असतीति विपक्षे । निश्चितान्यथेत्यादि ।
अयमिति पञ्चलक्षणः ।
तहि सौगतेनेति बौद्धेन त्रिलक्षणहेत्वङ्गीकारात् । शेषलक्षणत्रयम्-द्वयं नैयायिक प्रतिपन्नं तृतीयं ज्ञातत्वं चाङ्गीकरणीयम्। नैयायिकेन तु पञ्चलक्षणसाधनस्वीकारात्, षष्ठं ज्ञात. त्वलक्षणमाश्रयितव्यं षल्लक्षणत्वाद्धेतोः । अशेषमपीति पञ्चलक्षणत्वमपि ॥१३॥
साध्यविज्ञानमित्युक्तमिति साध्यमभिदधति
अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥१४॥
६१. अप्रतीतमनिश्चितम्, अनिराकृतं प्रत्यक्षाद्यबाधितम् , अभीप्सितं साध्यत्वेनेष्टम् ॥१४॥ १ नेन पक्षं मु।