________________
६. ४७ ]
हेत्वाभासः ।
. २४९
વિશેષ્યરૂપ ધમીની સિદ્ધિ તે વિકલ્પથી ખતાવેલી જ છે, તે એ પ્રમાણે ધમીની અપ્રસિદ્ધિ કઈ રીતે થશે ? અર્થાત નહિ થાય.
ઉપર મુજખ બે પક્ષના ખંડનથી અપ્રસિદ્ધોભય પક્ષ પણ ખંડિત થયેલ लघुवा. ४६.
(१०) परैरिति सौगतैः । अथात्र सार्वत्रिक इत्यादि परः । विकल्पादपीति सुरभि - गगनेन्दीवरम् ॥४६॥
(टि० ) अनभीप्सितेत्यादि । असाविति स्याद्वादवादी ॥ एवमपीति एकान्तत्वमपि । ताथागतस्येति सौगतस्य ॥ प्रकृत इति अनभीप्सित साध्यधर्म्मविशेषणः ।
(टि०) परैरिति सौगतैः । समीचीना इति भमी त्रयोऽपि न युक्तियुक्ताः ॥ अन्यथेति प्रसिद्धसाधने ॥ अथात्रेति विशेषणे । सार्वत्रिक इति सर्वत्र सर्वेषु धमिपु भवः सार्वत्रिकः । तत्रैवेति विवक्षिते धम्मिणि । सर्वत्रेति सर्वेषु भावेपु । तेनेति सांख्येन । अस्येति विशेयस्य । एतेनेति विशेषणविशेष्ययोरप्रसिद्धत्वस्वदोपानराकरणेन ॥४६॥
पक्षाभासान्निरूप्य हेत्वाभासानाहु:
असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः || ४७॥
$१ निश्चितान्यथाऽनुपपत्त्याख्यैकहेतुलक्षण विकलत्वेना हेतवोऽपि हेतुस्थाने निवेशाद्धेतुवदाभासमाना हेत्वाभासाः ||४७||
तत्रासिद्धमभिदधति
यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः ||४८||
$१ अन्यथाऽनुपपत्तेर्विपरीताया अनिश्चितायाश्च विरुद्धानैकान्तिकत्वेन कीयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारैकैवान्यथाऽनुपपत्त्यप्रतीतिरवशिष्टा द्रष्टव्याः हेतुस्वरूपाप्रतीतिश्चयमज्ञानात् सन्देहाद्, विपर्ययाद् वा विज्ञेया ||४८ ||
3
अथामुं भेदतो दर्शयन्ति
स द्विविध उभयासिद्धोऽन्यतरसिद्ध || ४९ ॥
९१ उभयस्य वादिप्रतिवादिसमुदायस्यासिद्धः, अन्यतरस्य वादिनः, प्रतिवादिनो
वाऽसिद्धः ॥४९॥
तत्राद्यभेदं वदन्ति
उभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥
९९ चक्षुषा गृह्यत इति चाक्षुषस्तस्य भावश्चाक्षुषत्वं तस्मात् । अयं च वादिग्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छन्दस्य ॥५०॥
३२