________________
રદ્દ
पक्षाभासः।
६.४५
કર્યો છે. એ જ પ્રમાણે મનુષ્યની ખોપરી પવિત્ર છે, પ્રાણીનું અંગ હોવાથી, શંખ અને છીપની જેમ. આ અનુમાન પણ લેકપ્રતીતિનિરાકૃત જાણવું. ૪૪.
(टि०) लोकशब्देनेति । अत्रेति लोकप्रतीतसाध्यधर्मविशेपणे । तेन चेति पारमार्थिकेन प्रमाणेन ॥४३॥
(प.) ननु लोकप्रतीतिरित्यादि परः । तदन्यतरद्वेति तयोर्मध्यादेकं किमपि स्ववचनं प्रमाणीकुर्वन्निति वचनस्यापि शाब्दप्रमाणत्वात् ॥४४॥
(टि.) तयेति अत्रमाणया लोकप्रतीत्या । कस्यापीति व्यवहारवाह्यस्याप्रमाणस्यापि पदार्थस्य । अप्रमाणस्य वाधाविधावसमर्थत्वात् । प्रत्यक्षेति प्रत्यक्षपरोक्षयोरधिकम् । तदन्यतरदिति तयोः प्रत्यक्षपरोक्षयोर्मध्यादन्यतरदेकं प्रत्यक्षं परोक्षं वा । अन्यथेति प्रत्यक्षाद्यतिरिक्तप्रमाणसंभवे । विभागस्येति प्रमाणद्वयलक्षणस्य स्वीकृतपक्षस्य दूपणापत्तेः । अस्येति लोकप्रतीतिनिराकृतसाध्यवर्मविशेषगस्य । प्रहत इति लोकप्रती तनिराकृतसाध्यधर्मविशेषणः ॥४४॥
(टि. अने ते प्रमाणव्यवहारे । उत्कलितत्वेनेति आधिक्येन । विनेयेति विशिप्यचित्ताभिप्रायोल्लापनार्थम् । अस्येति लोकप्रनीतिनिराकृतसाध्यधर्मविशेषणस्य । ४४॥
पञ्चमप्रकारं कीर्तयन्ति---- . स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं
प्रमाणम् ॥४५|| सर्वप्रमाणाभावमभ्युपगच्छतः स्वमपि वचनं स्वाभिप्रायप्रतिपादनपरं नास्तीति वाचंयमत्वमेव तस्य श्रेयः, ब्रुवाणस्तु नास्ति प्रमाणं प्रमेयपरिच्छेदकमिति स्ववचनं प्रमाणीकुर्वन् ब्रूत इति स्ववचनेनैवासौ व्याहन्यते, एवं निरन्तरमहं मौनीत्याद्यपि दृश्यम् ।
६१ ननु स्ववचनस्य शब्दरूपत्वात्तन्निराकृतसाध्यधर्मविशेषणः पक्षाभासः प्राग्गदितागमनिराकृतसाध्यधर्मविशेषण एव पक्षाभासेऽन्तर्भवतीति किमर्थमस्य भेदेन कथनमिति चेत् । ६२ एवमेतत् . तथापि शिष्यशेमुपीविकाशार्थमस्यापि पार्थक्येन कथन मिति न दोषः ।
६३ आदिशब्दमुचितास्तु पक्षाभासास्त्रयः स्मरणप्रत्यभिज्ञानतर्कनिराकृतसाध्यधर्मविशेषणाः । तत्र स्मरणनिराकृतसाध्यधर्मविशेषणो यथा, स सहकारतरुः फलशून्य इति, अयं पक्षः कस्यचित् सहकारतरं फलभरभ्राजिष्णुं सम्यक् स्मर्तुः स्मरणेन बाध्यते। प्रत्यभिज्ञाननिराकृतसाध्यधर्म विशेपणो यथा, सदृशेऽपि कचन वस्तुनि कश्चन कञ्चनाधिकृत्योर्वतासामान्यभ्रान्त्या पक्षीकुरुते, तदेवेदमिति । तस्यायं पक्षस्तिर्यक्सामान्यावलम्बिना तेन सदृशमिदमिति प्रत्यभिज्ञानेन निराक्रियते । तर्कनिराकृतसाध्यधर्मविशेषणो यथा, यो यस्तत्पुत्रः, स श्याम इति व्याप्तिः समीचीनेति । अस्यायं पक्षो यो जनन्युपभुक्तशाकाद्याहारपरिणामपूर्वकस्तत्पुत्रः, स श्यामः, इति व्याप्तिग्राहिणा सम्यक्तण निराक्रियते ॥४५॥