________________
प्रत्यभिज्ञाप्रामाण्यम् ।
गगनाम्भोरुहादिवत्तस्याऽसत्त्वापत्तेः । अथार्थक्रियाकारी-स सन् असन् वा कार्य कुर्यात् । उदीचीनस्तावद्दी(द्धी)नः वान्ध्येयवत्तस्य प्रमाणवन्ध्यत्वात् । प्राचीनः प्रमाणमुद्राहीनः । यतः सः क्षणभङ्गुरोऽर्थः स्वोत्पत्तिक्षणे, पूर्व, पश्चाद्वा कार्यव्यापारपरायणः संपद्यते।आद्यकल्पना अल्पीयसी तदानीमुत्पत्तिव्यग्रतया तस्य परव्यापारपराङ्मुखत्वात् । द्वितीयस्त्वश्रद्धेयः । अनुद्गतस्य पादपस्य च्छाया ग्रीष्मे मासि खरतरदिनकरतापोपतप्तपथिकजनशरीरसंतापाऽपहारमातन्वाना प्रतीयेत । नं च प्रतीतिस्तथा क्यापि प्रथते । तृतीयविकल्पः स्वल्पः, अस्तमितेऽपि मरीचिमालिनि भगवति तन्मरीचयोंऽन्धकारमपसारयन्त्वेव मृतस्यापि वचनवैचित्र्योत्पत्तिर्भवेत् । एवमनल्पकल्पान्तेऽपि न कल्पते । ततो भावानां क्षणिकत्वं भावरूपतां भजमानं भावयतां प्रतिभावतां भवतां न भद्राविर्भावो भावी, जिनमताभिमतस्य तात्त्विकस्य नित्यानित्यस्यैव भावस्य भावात् ।।
तथापि नेत्यादि। इयतैवेति क्षणिकत्वेनैव । तथा चेदिति सादृश्यमस्ति । तस्मादिति गवयादेः । अयमिति महिषादिः । परमाण्विति समस्तवस्तूनि परमाणुप्रचयरूपाणि । विश्वं विश्वं परमाणुमयमिति सौगताः । अतस्तद्विलक्षणं किमपि नास्ति । तस्मादिति पूर्वदृष्टप्रपञ्चात् उत्तमति ऋणग्राहकेणाकीर्णो धृतो दुर्गतो निःस्वो निर्द्रव्योऽधमर्ण ऋणदाता स इव । अयमिति भिक्षुः सौगतः । तत्तदुक्तमिति अपरापरोत्पादकेत्यादिकम् । निनक्षुरिति नटुमिच्छुः ।
६९ यदि हि सादृश्यादिकं न किञ्चिदस्ति, कथं तर्हि त्वयैव उत्तरीचक्रे ? विकल्पोप्रेक्षालक्ष्यमस्ति, न तु बाह्यं ग्राह्यमिति चेत् । नीलपीतादिविशेषोऽपि तथैवास्तु । बहिस्तदभावे कथं नैयत्येन विकल्पोल्लेख इति चेत् । सादृश्यादौ कथम् ? वासनातश्चेत् । अन्यत्रापि तत एवास्तु । वासनाया अपि नैयत्येन उद्बोधकं किञ्चित् बहिरेष्टव्यमिति चेत् । को नामात्र परिपन्थी ? किन्तु सादृश्यादिकमपि स्वीकुरु । ततो नीलपीतादिविशेषो वा बहित्यज्यताम्, सादृश्यादिकमपि वा मन्यताम् । नान्यथा प्रमाणमुद्रा मृष्यते । सिद्धे चैवं सादृश्यादौ यत्र पूर्वाकारेण संकलनम्, तत्र प्रत्यभिज्ञा प्रमाणम् । अन्यत्र तु प्रत्यक्षमेव । मा भूद् वा बहिः सादृश्यादि, तथाप्यनुमानवत् प्रमाणमेवेयम् । न ह्यनुमानपरिच्छेद्यमपि अग्नित्वादिसामान्यं बहिरस्ति तथापि यथा प्रणालिकया तद्विकल्पस्याग्न्यादिस्वलक्षणे प्रतिबन्धात् तत् प्रमाणम्, एवं सादृश्यादेरसत्त्वेऽपि सदृशादिस्वलक्षणे तद्विकल्पस्य प्रतिबन्धात् किं नेयमपि तपस्विनी तथा स्यात् ?
$ જેન– સાદણ્યાદિ પદાર્થ છે નહિ તે તેને માનીને ઉત્તર કેમ દીધે?
બૌદ્ધ–સાદક્ષ્યાદિ કલ્પનાથી આરોપિત પદાર્થ છે, પરંતુ બાહ્ય ગ્રાહ્યરૂપે નથી. અર્થાત્ તે કેવળ કાલ્પનિક છે.
જેન–તે નીલપીતાદરૂપ સ્વલક્ષણો–વિશેષેને પણ તેવા જ-કાલ્પનિક માને.
બૌદ્ધ–નીલપીતાદરૂપ બાહ્ય પદાર્થ ન હોય તે-નિયતરૂપે ભેદને ઉલ્લેખ કઈ રીતે થઈ શકે? અર્થાત “આ નીલ છે “આ પીત છે એ ભેદ બાહા વિના કેમ થાય ?