________________
२२२
वस्तुनः सदसत्वात्मकत्वम् । ગ્રામ્યત્વ, ગ્રેમ્બિકત્વ, આ બધા પ્રકારે તેનું અસવ હોય તે તેમાં વિરાધના गध-(म.स२) ५४ या छ ? अर्थात् मिस विरोध नथी.
(पं०) नन्वित्यादि परः । अत्रेति अनेकान्ते । तदनवदातमिति सूरिः ।
(टि०)प्रध्वस्त इत्यादि ॥ कनककलशविनाशे नरपतिदुहितुः निष्प्रतिक्रियः शोकशङ्खः समुन्मीलितवान् सुवर्णकलशभङ्गात् ॥ तत्सुवर्णनिर्मितो रत्नरश्मिकरम्वितः किरीटः क्षितिपतिना युवरा. जाय ददे ॥ स मौलिलाभात् प्रमोदभागजनि । राज्ञो माध्यस्थ्यं मूलद्रव्यस्य सुवर्णस्य विद्यमानत्वात् । अत एव उत्पत्तिव्ययध्रौव्यात्मकं प्रमोदविषादमाध्यस्थ्यात्मकं च । पूर्वाकारेति पूर्वाकारस्य कलशलक्षणस्य विनाशः तस्मात्कलशादपरस्य मौलेरुदयः । तत् पूर्वोत्तराकारलक्षणं द्वयं तस्याऽऽवार एक इति सुवर्णरूपः । इत्यपि त्रयं तथा प्रत्ययादिति त्रयात्मकस्य वस्तुतः प्रतीतः ।
नन्वनेत्यादि ॥ अन्यथेति असत्त्वपरिहाराभावे सत्त्वासत्वयोविशेषाभावे । तयो. रिति सत्त्वाऽसत्त्वयोः ॥ अविशेष इति अभेद ऐक्यमेवेत्यर्थः ॥ स्वरूपेणेति भावेन । पटत्वेति पररूपेण भावद्रव्यक्षेत्रकालरूपैर विद्यमानत्वम् ।
१४ ये तु सौगताः परासत्त्वं नाभ्युपयन्ति; तेषां घटादेः सर्वात्मकत्वप्रसंगः । तथाहि-यथा घटस्य स्वरूपादिना . सत्त्वम् , तथा यदि पररूपादिनाऽपि स्यात् , तथा सति स्वरूपादित्ववत् पररूपादित्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् ? । परासत्त्वेन तु प्रतिनियतोऽसौ सिध्यति ।
१५ अथ न नाम नास्ति परासत्वम् , किन्तु स्वसत्त्वमेव तदिति चेत् । अहो ! नूतनः कोऽपि तर्कवितर्ककर्कशः समुल्लापः । न खलु यदेव सत्त्वम् , तदेवासत्त्वं भवितुमर्हति, विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोरैक्यायोगात् । अथ पृथक् तन्नाभ्युपगम्यते, नच नाभ्युपगम्यत एवेति किमिदमिन्द्रजालम् ? । ततश्चास्यानक्षरमसत्त्वमेवोक्तं भवति । एवं च यथा स्वासत्त्वासत्त्वात् स्वसत्वं तस्य, तथा परासत्त्वासत्त्वात् परसत्त्वप्रसक्तिरनिवारितप्रसरा, विशेषाभावात् ।
१६ अथ नाभावनिवृत्त्या पदार्थो भावरूपः, प्रतिनियतो वा भवति, अपि तु स्वसामग्रीतः स्वस्वभावनियत एवोपजायत इति किं परासत्त्वेनेति चेत् ? । न किञ्चित् । केवलं स्वसामग्रोतः स्वस्वभावनियतोत्पत्तिरेव परासत्त्वात्मकत्वव्यतिरेकेण नोपपद्यते । पारमार्थिकत्वासत्त्वासत्त्वात्मकस्वसत्त्वेनेव परासत्त्वासत्त्वात्मकपरसत्त्वेनाप्युत्पत्तिप्रसंगात् ।
૧૪ વળી, બૌદ્ધો કે જેઓ પદાર્થમાં પરાસત્વ (પરરૂપાદિપણે અભાવ) માનતા નથી. તેથી તેઓના મતે ઘટાદિ પદાર્થમાં સર્વાત્મકતાને એક જ પદાર્થમાં સર્વપદાર્થરૂપતાને) પ્રસંગ આવશે. તે આ પ્રમાણે જે પ્રકારે ઘટાદિ પદાર્થનું સ્વરૂપાદિદ્વારા સત્વ છે, તેમ જે પરરૂપાદિદ્વારા પણ સર્વ થાય તો-પદાર્થ સ્વ