________________
३.६] . प्रत्यभिज्ञाप्रामाण्यम् । છીએ. અને તે લક્ષણ પૂર્વોક્ત નખકેશાદિના સંકલનમાં ઘટતું નથી. કારણ કે ત્યાં વિશિષ્ટ–અર્થાત વિપર્યાયરહિત અવસાય-નિશ્ચય નથી. પણ અન્યત્ર તે વ્યવસાય છે તેથી લક્ષણ યુક્ત પ્રત્યભિજ્ઞાન પ્રમાણમાં બાધ કઈ રીતે સિદ્ધ થશે?
(प०) अशक्यन्त इति अमृष्यन्तः । अहो तर्केति सूरिवाक्यम् । तर्कणेति ऊहस्याख्या ।
अथ लक्षण युक्तेत्यादि यादृक्ष लक्षणमुक्तं तल्लक्षणयुक्तः पदार्थो दृश्यते । अथ च व्यभिचरति वाध्यते । ततो विज्ञायते तल्लक्षणं साधु न भवति । वाधासम्भवे इति वाधासम्भवे सति प्रकृते योजयति संकलनं हीत्यादिना । तद्यक्तमिति संकलनयुक्तम् । कररुहादौ संकलनयुक्तमपि प्रत्यभिज्ञानमवाध्यतेति योगः। अक्षुणांमति पुरः 'किमिति' इत्यध्याहार्यम् । किन्तु स्वपरेति गद्ये स्वपरव्यवसायि ज्ञानस्वरूपं यत् प्रमाणस्य सामान्यलक्षणं तस्य सद्भावस्तस्मिन् । सामान्यग्रहणे हि विशेषग्रहणं सुलभम् । लक्षणयुक्त इति स्वपरव्यवसायिलक्षणयुक्ते ।
' (टिं०) अथ कथमित्यादि। अशक्यन्त इति असहमानाः। ते हीति सौगताः। इयमिति प्रत्यभिज्ञा यथा लूना लूनाः कररहाः पुनः पुनः प्ररोहन्तः ‘त एवामी' इति प्रत्यभिज्ञानम्, तदलीकम्, नवनवोत्पादात् । अमीषामिति शाक्यानाम् । . अथ लक्षणेति तस्मिन् प्रत्यभिज्ञाने । तल्लक्षणमिति प्रत्यभिज्ञानलक्षणम् ।
तद्युक्तमिति सकलतल्लक्षणचिह्नयुक्तम् । तल्लक्षणमिति प्रत्यक्षलक्षणम् । क्षणदाप्रियेति निशाकरः । तदिति प्रमाणलक्षणम्। किन्तु स्वपरेत्यादि । तदिति स्वपरव्यवसायिज्ञानत्वरूपप्रमाणसामान्यलक्षणम्। विपर्ययेति विपर्ययरहितस्य । अवसायस्येति ज्ञानस्य । अस्मिन्नपीति प्रत्यभिज्ञानेऽपि ।
६८ क्षणभङ्गुरत्वाद्भावानामैक्यगृहीतिन्तिरेवेति चेत् । अत्र तावत् क्षणभङ्गभङ्ग एवाभङ्गुरमुत्तरम् । अस्तु वा क्षणभङ्गस्तथापि नेयतैव निःशेषप्रत्यभिज्ञाप्रामाण्यमुत्पुंसयितुं शक्यम् । तथाहि-पदार्थेषु किमैक्यगृहीतिभ्रान्तिनिमित्तमिष्यते ? अपरापरोत्पादुकक्षणानां सादृश्यमिति चेत् । तत् किं सादृश्यमस्ति किञ्चित् ? तथा चेत् । कचित् 'तेन सदृशोऽयम्' इति प्रत्यभिज्ञा भगवती भजतामभीलुका तर्हि प्रामाण्यम् । नास्त्येव सादृश्यम्, विलक्षणत्वात् स्वलक्षणानामिति चेत् । इदानीमपि क पलायसे ? एवं तर्हि 'तस्माद् विलक्षणोऽयम्' इति प्रत्यभिज्ञा प्रामाण्यमास्तिघ्नुवीत ।
___वैलक्षण्यमपि नास्ति, परमाणुप्रचयमात्रत्वात् समस्तवस्तूनामिति चेत् । नन्वेवमपि 'तस्मादयं महान्, अल्पो वा प्रचयः' इत्यादिप्रत्यभिज्ञा भवतु प्रामाण्यशोभाभारभागिनी । प्रचयोऽपि न कश्चित्, नीलपीतादिपरमाणूनामेव तात्त्विकत्वादिति चेत् । अहो ! उत्तमर्णाकीर्णदुर्गताधमर्ण इवायं स्वयं तत्तदुक्तमपलप्यापलप्य निनझुर्भिक्षुः ।
१ ज्ञानप्रा मु । २ चेत्, किं मु ।