________________
५. ५] क्षणभङ्गनिराकरणम् ।
१९९ સમાધાન–તે પછી તમે માનેલ ભિન્ન અતિશય વિષે પણ એમ કહી શકાય કે-તે અતિશય પણ અન્ય અતિશયને જે ઉત્પન્ન ન કરે તો તે પણ અતિશય કહેવાશે નહિ. અને જે તે અતિશય બીજા અતિશયને ઉત્પન્ન કરતે હોય તે તે-અનવસ્થાનું દુઃખ આવી પડશે. માટે બીજદ્રવ્યથી પર્યાયશક્તિ ભિન્ન છે એવું કહી શકશે નહિ. • બીજદ્રવ્યરૂપ પદાર્થથી પર્યાયશક્તિ અભિન્ન છે એ બીજા પક્ષમાં પણ પદાર્થથી અભિન્ન પર્યાયશક્તિ ઉત્પન્ન થયે. તે પદાર્થ થયે એમ કહેવાશે એટલે પદાર્થમાં ક્ષણિકતા કેમ સિદ્ધ નહિ થાય ? બીજદ્રવ્યથી પર્યાયશક્તિ ભિન્ન ભિન્ન છે, એમ ત્રીજો પક્ષ માનવામાં તે તે એક અંશમાં એટલે કે અભિન્ન અંશમાં ક્ષણિકતા સિદ્ધ કરતો હોવાથી તમારા માટે કુશલ નથી.
(१०) क्षणिकाक्षणिके इति अस्मदभिमते । एकान्तविपक्षे इति भवदभीष्टे । तव्याप्तार्थक्रियाया इति क्रमाक्रमव्याप्तार्थक्रियायाः। तत इति क्षणिकाक्षणिकात् । व्यावृत्त्यनिर्णयादित्यतोऽप्रे यत इति गम्यम् ।
क्रमवत्सहकारिकारणकलापोपढौकनवशेनेति क्रमवन्ति यानि सहकारि कारणानि तेषां कलापस्तदुपढौकनवशेन । अयं च कलशस्येत्यादि गद्ये अयं च क्रमः कलशस्य सुप्रतीत एवेति योगः । एतदेवेति वक्ष्यमाणम् । समर्थस्वभावादिति समर्थपदार्थात् । स एवेति अक्षेपक्रियासमर्थस्वभावः । तत्कालवदिति वर्तमानकालवत् । तदैवेति पूर्वमपि । तदिति कार्यम् । कथं वार्यतामित्यतोऽग्रे यत इति गम्यम् ।
क्षेप इति विलम्वः तेषामिति कार्याणाम् । . न चैतदित्यादि सूरिः । अनभ्युपगमादिति अस्माभिः । अनभ्युपगमादित्यतोऽग्रे किं त्विति गम्यम् । यदेव हीत्यादि गद्ये वनशब्देन जलम् ।।
नवसावित्यादि सौगतः पृच्छति । अनयेति शक्त्या । अञ्जनरेखाप्रख्ययेत्यतोऽप्रेकि स्विति गम्यम्। संवेदनकोटीमुपागता इति शक्तिस्तु न केनापि संवेद्यते । अथ सहकारिण इत्यादि बौद्धमेव पृच्छति जैनः । अपोपयन्त इति अत्यन्तविभिन्नत्वात् । तही. त्यादि बौद्धः । अयमिति अतिशयः। तदन्तरमिति अतिशयान्तरम् । अंशे इति द्रव्यरूपे ॥
(टि.) तदद्वारेणेति वकिपद्वारेण । तल्लक्षकमिति अर्थक्रियाकारित्वलक्षकम् ।। अन्यतरेणेति एकेनापि। तद्व्यापार इति तस्य कार्यकारणग्राहिणः प्रत्यक्षस्य व्यापारोऽवसायः ॥
वाद्यसिद्वमिति वादिनो वौद्धस्यासिद्धम् ।। . क्षणिकेति नित्यानित्ये वस्तुनि क्षणिकै कान्त एव विपक्षो यस्य स तस्मिन् । तव्याप्तेति क्रमाकमव्याप्तार्थक्रियायाः। तत इति क्षणिकाक्षणिकवस्तुनः । अयमिति क्रमः ।
कथंचिदिति द्रव्यरूपतया । क्रमवदिति क्रमवन्ति क्रमवर्तीनि यानिसहकारिकारणानि तेषां समूढीपढौकनबठेन । तासामिति घटचेटिकानां जलवहनकर्मणामेवेत्यर्थः । कलशो द्रव्यरूपतया सन सहकारिवशात्सं जायते । ततश्चेटिकाशिरसि आरोहति क्लमं च विधत्ते तासामिति क्रमः ।
अ हि भवानित्यादि अक्षेपक्रियेति अकालविलम्बिनः । स एवेति समर्थस्वभाव एव । तत्कालवदिति उत्तरकालवत् । तदैवेति पूर्वकाले एव। तदिति कार्यम् ।।६२॥