________________
सामान्यनिरूपणम्।
[५.५૬૧ પૂર્વ અને ઉત્તર પર્યાયમાં અનુગત-અન્વયી એક દ્રવ્ય છે. “તે તે પર્યા એને પામે તે દ્રવ્ય એ વ્યુત્પત્તિ દ્વારા ત્રણે કાળમાં અનુયાયી જે વસ્તુને અંશ તે ઊર્ધ્વતા સામાન્ય છે. દષ્ટાન્ત સ્પષ્ટ છે.
१२ अत्रैकस्य कालत्रयानुयायितायां जनुपाऽन्धः शौद्धोदनिशिष्यः समाचष्टे-अहो ! कष्टः शिष्टैरुपक्रान्तोऽयमेकस्यानेककालावस्थितिवादः । प्रतिक्षणभङ्गु. रभावावभासनायामेव हि प्रमाणमुद्रा साक्षिणी । तथाहि-यत् सन् , तत् क्षणिकम्, संश्च विवादाध्यासितः शब्दादिः । सत्वं तावद् यत् किंञ्चिदन्यत्रास्तु, प्रस्तुते तावदर्थक्रियाकारित्वमेव मे संमतम् । तच्च शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेव । विपक्षाच्च व्यापकानुपलब्ध्या व्यावृत्तम् । सत्त्वस्य हि क्षणिकत्ववत् क्रमाक्रमावपि व्यापकावेव । न हि क्रमाक्रमाभ्यामन्यः प्रकारः शङ्कितुमपि शक्यते, व्याघातस्योद्भटत्वात् . न क्रम इति निषेधादेवाक्रमोपगमात् , नाक्रम इति निषेधादेव च क्रमोपगमात् । तौ च क्रमाक्रमौ स्थिराद् व्यावर्त्तमानावर्थक्रियामपि ततो व्यावतयतः । वर्तमानार्थक्रियाकरणकाले ह्यतीतानागतयोरप्यर्थक्रिययोः समर्थत्वे तयोरपि करणप्रसङ्गः । असमर्थत्वे पूर्वापरकालयोरप्यकरणापत्तिः ।
६३ समर्थोऽप्यपेक्षणीयासन्निधेनं करोति, तत्सन्निधेस्तु करोतीति चेत् ननु किमर्थं सहकारिणामपेक्षा ? किं स्वरूपलाभार्थम् , उतोपकारार्थम् , अथ कार्यार्थम् ? । न प्रथमः, स्वरूपस्य कारणाधीनस्य नित्यस्य वा पूर्वसिद्धत्वात् । न द्वितीयः, स्वयं सामर्थेऽसामर्थ्य वा तस्यानुपयोगात् । . तथा च
भावः स्वतः समर्थश्चेद्, उपकारः किमर्थकः १ ।
भावः स्वतोऽसमर्थश्चेद्, उपकारः किमर्थकः ? ॥१॥ अत एव न तृतीयः । उपकारवत् सहकारिणामप्यनुपयोगात् । तथा च--
भावः स्वतः समर्थश्चेत्, पर्याप्त सहकारिभिः । भावः स्वतोऽसमर्थश्चेत्, पर्याप्तं सहकारिभिः ॥१॥
अनेकाधीनस्वभावतया कार्यमेव तानपेक्षत इति चेत् । न, तस्यास्वतन्त्रत्वात् , स्वातन्त्र्ये वा कार्यत्वव्याघातात् , तद्धि तत्साकल्येऽपि स्वातन्त्र्यादेव न भवेदिति । एवं च यत् क्रमाक्रमाभ्यामर्थक्रियाकारि न भवति, तदसत् , यथा गगनेन्दीवरम्, तथा चाक्षणिकाभिमतो भाव इति व्यापकानुपलब्धिरुत्तिष्ठते । तथा च क्रमयोगपद्ययोापकयोः व्यावृत्तेरक्षणिकाद्व्यावर्त्तमानार्थक्रिया क्षणिके विश्राम्यतीति प्रतिबन्धसिद्धिः ।।