________________
7
प्रमाणविषयनिरूपणम् ।
[५. १
કારણ કે તેઓ વિરુદ્ધ ધર્મના આશ્રય છે, જે વિરુદ્ધ ધર્મના આશ્રય હાય તે અત્યન્ત ભિન્ન હાય છે, જેમકે-પાણી અને અગ્નિ, તેવી જ રીતે સામાન્ય અને વિશેષ અને પરસ્પર વિરુદ્ધ ધર્મના આશ્રય છે. તેથી તે બન્ને પરસ્પર અત્યન્ત ભિન્ન છે. માટે ઘટાદિ(પદ્મા)ની સામાન્યવિશેષાત્મકતા-સામાન્ય અને વિશેષ ઉભયસ્વરૂપતા) યુક્તિસિદ્ધ નથી.
( प ० ) ई नमः || पञ्चमपरिच्छेदे विषयिण इति प्रमाणानि । स्वतन्त्रस्येति यौगाभिमतस्य ।
J
युष्माकमित्यतोऽग्रे यदिति गम्यम् । सर्वगतमित्यादिना त एवं प्रमाणयन्ति । तद्विपरीता इति असर्वगताः
(टि०) एवं चैत्यादि ॥ सामान्यस्येति सांख्यमतम्, केवलसामान्यस्याङ्गीकारात् । विशेघस्येति । सामान्यममान्यम्, विशेष एव चित्ततोपपोषक इति प्रतिपादयत् सौगतमतम् । उभयस्येति स्वतन्त्रौ सामान्यविशेषौ प्रमाणभूमिरिति साधयत् योगमतम् ।
नन्वहो जैना इत्यादि । तद्विपरीता इति सामान्यविपर्ययभृताः । एषामिति सामान्यविशेषानाम् ।
१७८
१३ तदेतत्परमप्रणयपरायणप्रणयिनीप्रियालापप्रायं वासवेश्मान्तरेव राजते । तथाहियदिदं सर्वगतत्वं सामान्यस्य न्यरूपि तत् किं व्यक्तिसर्वगतत्वम्, सर्वसर्वगतत्वं वा स्वीकृत्य ? यदि प्राक्तनम्, तदा तर्णकोत्पाददेशे तदविद्यमानं वर्णनीयम्, अन्यथा व्यक्तिसर्वगतत्वव्याघातात् । तत्रोत्पन्नायां च व्यक्तौ कुतस्तत् तत्र भवेत् ? किं व्यक्त्या सहैवोत्पद्येत, व्यक्त्यन्तराद्रा समागच्छेत् ? । नाद्यः पक्षः, नित्यत्वेनास्य स्वीकृतत्वात् । द्वितीयपक्षे तु ततस्तदागच्छत् पूर्वव्यक्ति परित्यज्यागच्छेत्, अपरित्यज्य वा ? | प्राचिकविकल्पे, प्राक्तनव्यक्तेर्निःसामान्यताssपत्तिः । द्वितीयपक्षे तु किं व्यक्तयां सहैवागच्छेत्, केनचिदंशेन वा ? आधे शाबलेयेऽपि बाहुलेयोऽयमिति प्रतीतिः स्यात् । द्वितीयपक्षे तु सामान्यस्य सांगताssपत्तिः । सांशत्वे चास्य व्यक्तिवदनित्यत्वप्राप्तिः ।
६४ अथ विचित्रा वस्तूनां शक्तिः; यथा मन्त्रादिसंस्कृतमस्त्रमुदरस्थं व्याधिविशेषं छिनत्ति, नोदरम्; तदिहापि सामान्यस्येदृशी शक्तिः, यया स्वहेतुभ्यः समुत्पद्य - मानेऽर्थे पूर्वस्थानादचलदेव तत्र वर्त्तत इति चेत् ।
$५ स्यादेतदेवम्, यथेकान्तेनैक्यं सामान्यस्य प्रमाणेन प्रसिद्धं स्यात् न चैवम्, तस्यैव तत्त्वतो विचारयितुमुपक्रान्तत्वात् । यथाहिं - यद्यस्यैकान्तैक्यं कीर्त्यते, तदा भिन्नदेशकालासु व्यक्ति वृत्तिर्न स्यादिति । यदि तु स्वभाववादालम्बनमात्रेणैवेयमुपपाद्यते तदा किममुना सामान्येन ? किंतरां वाऽन्येनापि भूयसा वस्तुना परिकल्पितेन ? एकैव काचित् पद्मनिधीयमानां व्यक्तिरभ्युपगम्यताम् । सा हि तथास्वभावत्वात् तथा तथा प्रथिष्यत इति लाभाभिलाषुकस्य मूलोच्छेदः । तन्न व्यक्ति सर्वगतत्वमेतस्य सङ्गतिगोच• भावमभजत् ।
१ यथा मु ।