SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७४ तदुत्पत्तितदाकारयोः कारणत्वनिराकरणम् । ४.४७ एतद्व्यवच्छेद्यमाचक्षतेन तदुत्पत्तितदाकारताभ्याम्, तयोः पार्थक्येन सामस्त्येन च व्यभि चारोपलम्भात् ॥४७॥ ६१ तथाहि-ज्ञानस्य तदुत्पत्तितदाकारताभ्यां व्यस्ताभ्यां, समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थापकत्वं स्यात् ? यदि प्राच्यः पक्षः, तदा कपालक्षणः कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्, तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्भः स्तम्भान्तरस्य च व्यवस्थापकः स्यात् , तदाकारटायास्तदुत्पत्तिरहितायाः संभवात् । अथ द्वितीयः, तदा कलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत्, समुदितयोस्तदुत्पत्तितदाकारतयोविद्यमानत्वात् । अथ विद्यमानयोरप्यनयोनिमेवार्थस्य व्यवस्थापकम्; नार्थः, तस्य जडत्वादिति मतम् । तदपि न न्यायानुगतम्, समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानैर्व्यभिचारात् । तानि हि यथोक्तार्थव्यवस्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपि प्राच्यं जनकज्ञानक्षणं न गृह्णन्ति । अपि च, किमिदमर्थाकारत्वं वेदनानाम् , यहशात् प्रतिनियतार्थपरिच्छेदः स्यात् ? किमर्थाकारोल्लेखित्वम्, अर्थाकारधारित्वं वा ? प्रथमप्रकारे, अर्थाकारोल्लेखोऽर्थाकारपरिच्छेद एव, ततश्च ज्ञानं प्रतिनियतार्थपरिच्छेदात् प्रतिनियतमर्थमवद्योतयतीति साध्याविशिष्टत्वं स्पष्टमुपढौंकते । द्वितीयप्रकारे पुनराकारधारित्वं ज्ञानस्य सर्वात्मना, देशेन वा । प्रथमपक्षे, जडत्वादर्थस्य ज्ञानमपि जडं भवेत् , उत्तरार्थक्षणवत् । प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवास्य प्रसज्येत, सर्वात्मना प्रमेयरूपताऽनुकरणात् । अथ देशेन नीलत्वादिनाऽर्थाकारधारित्वमिष्यते ज्ञानस्य, तर्हि तेनाजडाकारेण जडताप्रतिपत्तेरसंभवात् कथं तद्विशिष्टत्वमर्थस्य प्रतीयेत ? । न हि रूपज्ञानेनाप्रतिपन्नरसेन तद्विशिष्टता सहकारफलादौ प्रतीयते । किञ्च, देशेनाकारधारित्वान्नीलार्थवन्निःशेषार्थानामपि ज्ञानेन ग्रहणापत्तिः, सत्त्वादिमाग तस्य सर्वार्थाकारधारित्वाविशेषात् । अथ तदविशेषेऽपि नीलाद्याकारवैलक्षण्यान्निखिलार्थानामग्रहणम्, तहि समानाकाराणां समस्तानां ग्रहणप्राप्तिः । अथ यत एव ज्ञानमुत्पद्यते, तस्येवाकारानुकरणहारेण ग्राहक म् । हन्त ! एवमपि समानार्थसमनन्तरप्रत्ययस्य तद्ग्राहक स्यादित्युक्तम् । ततो न तदुत्पत्तितदाकारताभ्यां ज्ञानस्य प्रतिनियतार्थावभासः, किन्तु प्रतिबन्धकापगमविशेषादिति सिद्धम् ॥४७॥ इति प्रमाणनयतत्त्वालोके श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायामागमस्वरूपनिर्णयो नाम चतुर्थः परिच्छेदः । mein १ एतयोः-टिप्पनसंमतः पाठः । २ °लोकालङ्कारे-मु० ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy