________________
४. १५. ]
सप्तभङ्गीनिरूपणम् ।
१५५
(fr) या प्रश्नादित्यादि || प्रश्नादिति प्राश्निकानुयोगवशात् विधिनिषेधभेदेन, पर्युदासस्य नञ्वाचकत्वाद् निषेधः । बाधेति प्रत्यक्षादिविरुद्ध सदाद्येकान्त पीडावर्जिता । सप्तधेति सप्तप्रकारा । धर्ममिति सदसदाद्यम् नित्यानित्याद्यं वा । अनेकात्मके इति अनेकधर्माधारभूने कथंचित्पक्षपवित्रिते इति । निरदेशीति निर्दिष्टा । ययेति सप्तभङ्गया । जल्पेति वादसंगरचत्वरे । विजयते इति 'वि' पूर्वः 'जि जये' 'वि- पराभ्यां जिः " [कान्तन्त्रे पृ० १८४ ३२।४२ सूत्रान्तर्गतम् ] इति वचनादात्मनेपदम् ।
प्रमाणेति अनेकान्तात्मक वस्तुग्राहकज्ञानम् । नयेति वस्त्वेकदेशग्राहकं ज्ञानम्, तयोः सप्तभङ्गयौ, तयोः । साधारणमिति समानम् । अनयोरिति प्रमाणनयसप्तभङ्गयोः ॥१४॥ अथास्यां प्रथमभङ्गोल्डेखं तावद् दर्शयन्ति
तद्यथा - स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो भङ्गः ॥ १५ ॥
$ १ स्यादित्यव्ययमनेकान्तावद्योतकं स्यात्कथञ्चित्स्वद्रव्यक्षेत्र कालभावरूपेणास्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्र कालभावरूपेण । तथाहि कुम्भो द्रव्यतः पार्थिवत्वेनास्ति, न जलादिरूपत्वेन; क्षेत्रतः पाटलिपुत्रकलेन, न कान्यकुब्जादित्वेन; कालतः शैशिरत्वेन, न वासन्तिकादित्वेन भावतः श्यामत्वेन न रक्तत्वादिना । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति ।
$ २ अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत प्रतिनियतस्वार्थानभिधानात् ।
1
तदुक्तम् —
"वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्त्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् " ॥१॥
1
;
"
$ ३ तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्त्वरूपानुपपत्तिः स्यात् तत्प्रतिपत्तये स्यादिति प्रयुज्यते, स्यात्कथञ्चित्स्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः । यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेद फलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम् — “सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः " ॥ १॥ १५॥
સપ્તભ ́ગીના પ્રથમ ભ`ગના ઉલ્લેખ-~
ઘટાદિ પદાર્થ સ્યાત છે જ-આ પ્રકારે વિધિની કલ્પનાથી પહેલે ભગ
छे. १५.
ßì. સ્યાત્' અવ્યય અનેકાન્તને જણાવનાર છે. સ્યાત્ એટલે કથંચિત્ સ્વદ્રવ્ય, સ્વક્ષેત્ર, સ્વકાલ અને સ્વભાવથી કુંભાદિ સમસ્ત પદાર્થ વિદ્યમાન છે જ, પરન્તુ પરદ્રવ્ય, પરક્ષેત્ર, પરકાલ અને પરભાવથી વિદ્યમાન નથી. તે આ પ્રમાણે